This page has not been fully proofread.

४ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
नर इति । वाचाल इति कलासंबन्धद्वारेणैव बहुभाषी, नान्यथा । मा
भूदनागरकत्वप्रसङ्ग इति । चाटुकारकः प्रियस्य कर्ता । कलाग्रहणेन हि
संस्कारवत्त्वात् । असंस्तुतोऽप्यपरिचितोऽपि चित्तं विन्दति गृह्णाति । आ-
श्वेव न कालमपेक्षते । संयोगात्स्त्रीपुंसयोः । ग्रहणादेवाभिजायते सौभा-
ग्यम् । अर्थोऽनर्थप्रतीघातः, कामो यशश्चेत्यर्थोक्तम् । तत्रापि देशकाला-
पेक्षा । अस्मिन्देशे नागरकाः कलाकुशलाः घटौनिबन्धनादि कामा वेति
प्रयोगः । नागरकशून्यो वा देशः, गुणद्विपो वात्र प्रतिवसन्ति, व्यसन-
कालो वा नागरकाणामिति, न वा प्रयोगासंभवः, अन्यथा तत्परिज्ञानं
दोपफलं स्यादिति ।
 

 
इति श्रीवात्स्यायनीय कामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरह-
कातरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणकत्रकृत सूत्रमाप्याया
साधारणे प्रथमेऽधिकरणे विद्यासमुद्देशस्तृतीयोऽध्यायः ।
 
चतुर्थोऽध्यायः ।
 
शास्त्रकार एव प्रकरणसंबन्धमाह-
गृहीतविद्यः प्रतिग्रहजयक्रयनिर्देशाधिगतैरर्थैरन्वयागतैरुभयर्वा
गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तत ॥
 
गृहीतविद्य इति । तस्य नागरकवृत्तवर्तने योग्यत्वात् । गृहीतविद्य-
स्याप्यसतिपत्नीयोगे नागरकवृत्तस्यासंभवादाह — गार्हस्थ्यमिति । पत्नी-
संयोगेऽपि यदि गार्हस्थ्यं गृहकर्म नागरकयोग्यं तन्नार्थ विनेत्याह-अर्थ-
रिति । तेऽपि न विनोपायरित्याह – प्रतिप्रहेति । तत्र ब्रालणः प्रति-
ग्रहेण । तद्वृत्तित्वात् । क्षत्रियः शस्त्रजीवित्वाज्जयेन । वैश्यः क्रयेण चातों-
पलक्षणार्थेन । शूद्रः कारुकुशीलवादिः कृते कर्मणि यो निर्देशो भृतिले-
नार्जितैः । गृहस्थकर्म प्राप्येति न निष्किचनस्यायं विधिः । अन्वयागतै-
रिति । पितृपितामहागतैः । अत्र पत्नीयोगादनन्तरमेव गार्हस्थ्याधिगमः ।
 
१. 'सस्कारत्वात्' पा०. २. 'सयोगात्' पा०. ३. 'घण्टादिनिबन्धन-
दिको नो बेति' पा०. ४. 'अनुवर्तेत' पा०. ५. 'नटातित्वात्' पा०.
६. 'कारु:' पा०.
 
1
 
1
 
1