This page has not been fully proofread.

४२
 
३ आदितोऽध्यायः]
 
कामसूत्रम् ।
 
पूजिता सा सदा राज्ञा गुणवद्भिश्च संस्तुता ।
प्रार्थनीयाभिगम्या च लक्ष्यभूता च जायते ॥
 
योगज्ञा राजपुत्री च महामात्रसुता तथा ।
सहस्रान्तः पुनरपि स्वबशे कुरुते पतिम् ॥
तथा पतिवियोगे च व्यसनं दारुणं गता ।
देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति ॥
आभिरिति । कलाभिरभ्युच्छ्रिता जातोत्कर्षा । वेश्येति प्रायशोग्रह -
णमस्या इति दर्शनार्थम् । शीलं सुखभावः । रूपं संस्थानं वर्णश्च ।
गुणा नायिकाया वैशिके वक्ष्यमाणाः । गणिकाशब्दमिति । वेश्या सा-
मान्यशब्दवाच्यापि विशिष्टं गणिकामिधानं लभते इत्यर्थः । एवंलक्षण-
त्वाद्द्वणिकायाः । स्थानं च जनसंसदीति । जनसभायामासनभूमिं लभते ।
न वेश्येत्यवगण्यते । राज्ञा पूजिता छेत्रभृङ्गारादिदानेन । गुणवद्भिः सं -
स्तुता असाधारणमस्याः कलाकौशलमिति प्रशंसिता । प्रार्थनीया कैलो-
पदेशार्थिनामभिगमनार्हा । विदग्धानां रतार्थिनां लक्ष्यभूता निदर्शनभूता
देर्वेदत्तावत् । योगज्ञा गीतादिप्रयोगज्ञा । सहस्रान्तःपुरमिति प्रभूतदारो-
पलक्षणम् । स्ववशे आत्मनो वशे । तथा पतिवियोगे पत्यौ प्रोषित,
तथा व्यसनं दारुणं वैधव्यलक्षणं गता निर्वेदात्त्यक्तस्वदेशा अन्यस्मिन्नपि
देशे सुखेनैव जीवति । विद्योपदेशदानात् ।
पुरुषमधिकृत्याह-
नरः कलासु कुशलो वाचालचाटुकारकः ।
असंस्तुतोऽपि नारीणां चित्तमा वेव विन्दति ॥
कलानां ग्रहणादेव सौभाग्यमुपजायते ।
देशकालौं त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
विद्यासमुद्देशस्तृतीयोऽध्यायः ।
 
पा.
 
१. 'नायिकायाम्'; 'नायिकाद्या:' पा० . २. 'छन्त्रागारादि'; 'क्षेत्रगारादि'
३. 'कलोपदेशिनाम्' पा०. ४. 'देवदत्तवत्'; 'देवतावत्' पा०.
'अवेक्ष्य' पा०.