This page has not been fully proofread.

३ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
४१
 
इति ॥ वस्त्रगोपनानीति
 
il
 
। वस्त्रेणाप्रकाश्यदेशस्य संवरणं यथा तद्यमान-
मपि तस्मान्नापैति । त्रुटितस्यात्रुटितस्येव परिधानम् । महतो बखस्य
संवरणादिनाल्पीकरणम् । इति गोपनानि ॥ द्यूतविशेषा इति । निजव-
5 धूतविधानमेतत् । तत्र ये प्रात्यादिभिः पञ्चदशभिरगर्मुष्टिक्षुलकादयो
धूतविशेषाः प्रतीतार्थाः ॥ आकर्षक्रीडेति । पाशकक्रीडा । द्यूतविशेष-
त्वेऽपि पुनर्वचनमत्रादरार्थम् । सशृङ्गारत्वादुर्विज्ञेयत्वाद्वा । अक्षहृदयाप-
रिज्ञाने हि नलयुधिष्ठिरयोरपि पराजयात् ॥ बालक्रीडनकानीति । गृह-
कन्दुकपुत्रिकादिभिर्यानि बालानां क्रीडनानि तानि वालोपक्रमार्थानि ।
एता एकपष्टिकला उक्ताः ॥ वैनयिकीनामिति । खपरविनयप्रयोजनाद्वै-
मयिक्य आचारशास्त्राणि । हस्त्यादिशिक्षा च । वैजयिकीनामिति ।
विजयप्रयोजना वैजयिक्यः । दैव्यो मानुष्यश्च । तत्र दैव्योऽपराजिता-
दयः । मानुष्यो याः साङ्घनमिक्यः शस्त्रविद्याः । व्यायामिकीनामिति ।
व्यायामप्रयोजना व्यायामिक्यो मृगयाद्याः । एतास्तिस आत्मोत्कर्ष-
रेक्षणार्था जीवार्थाः ॥ इति चतुःषष्टिरकविद्या इति । कामसूत्रस्यावय-
विन्योऽवयवभूताः । तदभावे कामसूत्रस्याप्रवृत्तेः ॥
 
i
 
पाञ्चालिकी च चतुःपष्टिरपरा । तस्याः प्रयोगानन्ववेत्य सांम-
योगिके वक्ष्यामः । कामस्य तदात्मकत्वात् ॥
 
पाञ्चालिकी चेति । पाञ्चालप्रभवा तत्प्रोक्तत्वाद्वा । चतुःषष्टिरङ्गविद्याः ।
तद्भावेऽपि तस्याः प्रवृत्तेः । तस्या इति पाञ्चालिक्याः । अन्ववेत्य यथा-
यथं विषयमनुसृत्य । सांप्रयोगिकेऽधिकरणे वक्ष्यामः । कामस्य तढा-
त्मकत्वादिति । चतुःषष्टिस्वभावत्वात् । पूर्वस्यास्तु चतुःपष्टेस्नग्रान्तरे
दृष्टप्रयोगत्वात्, इह तदङ्गताप्रतिपत्त्यर्थमुद्देशमात्रमुक्तम् ।
 
कलाग्रहणे फलमाह -
 
आमिरेभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥
 
4
 

 
i
 
#
 
१. 'गृहे' पा०. २. 'रक्षणा जीवार्याः' पा०. ३. 'चतुःषष्टिन्तम्या प्रयोगा-
म्सप्रयोगिके वक्ष्यामः । तदात्मकत्वात्संप्रयोगस्य' पाँ०. ४. 'सूत्रान्तरे पा०.
५. 'अभ्युत्थिता' पा०.
 
का० ६