This page has not been fully proofread.

कामसूत्रम् ।
 
३ आदितोऽध्यायः ]
 
निमित्तीकृत्याहं प्रणीता(?) ॥ निमित्तज्ञानमिति । निमित्तं धैर्मक्षमावर्गे-
ऽन्तर्गन्तं (?) शुभाशुभादेशपरिज्ञानफलम् । तत्र च प्रष्टुरभिज्ञानार्थम् ।
एवंरूपया स्त्रिया तव संप्रयोग इति कामोपहसितप्राया आदेशा इति ।
निमित्तज्ञानमिति सामान्येनोक्तम् ॥ यन्त्रमातृकेति । सजीवानां निर्जीवानां
यन्त्राणां यानोदकसङ्ग्रामायै घटनाशास्त्रं विश्वकर्मप्रोक्तम् ॥ धारणमातृके-
ति । श्रुतस्य ग्रन्थस्य धारणायै शास्त्रम् । यथोक्तम् – 'यस्तु कोषस्तथा
द्रव्यं लक्षणं केतुरेव च । इत्येते धारणादेशाः पञ्चाशरुचिरं वपुः ॥
इति ॥ संपाठ्यमिति । संभूय क्रीडार्थ वादार्थ च । तत्र पूर्वधारितमेको
ग्रन्थं पठति, द्वितीयस्तमेवाश्रुतपूर्व तेन सह तथैव पठति ॥ मानसीति ।
मैंनसि भवा चिन्ता । दृश्यादृश्यमेदेविषया द्विधा । तत्र कश्चिद्व्यञ्जना-
क्षरैः पद्मोत्पलाद्याक्कृतिभिर्यथास्थितानुखारविसर्जनीययुतैः श्लोकमनुक्तायै
लिखति । अन्यश्च मात्रासंधिसंयोगासंयोगच्छन्दोविन्यासादिभिरभ्यासा-
दतीवाक्षरं (?) पठति । इति दृश्यविषया । यदा तु तथैव तानि यथा-
क्रममाख्यातानि श्रुत्वा पूर्ववदुन्नीय पठति, तदा दृश्यविषया न भवति ।
सा चाकाशमानसीत्युच्यते । तदुभयं क्रीडार्थं वादार्थं च ॥ काव्यक्रियेति ।
संस्कृतप्राकृतापत्रंशकाव्यस्य करणं प्रतीतप्रयोजनम् ॥ अभिधानकोष
इति । उत्पलमालादिः ॥ छन्दोज्ञानमिति । पिङ्गलादिप्रणीतस्य च्छन्दसो
ज्ञानम् ॥ क्रियाकल्प इति । काव्यकरणविधिः । काव्यालंकार इत्यर्थः ।
त्रितयमपि काव्यक्रियाङ्गं परकाव्यावबोधार्थं च । छलितकयोगा इति ।
परव्यामोहनार्थाः । यथोक्तम् – 'यद्रूपमन्यरूपेण संप्रकाश्य हि वञ्चनम् ।
देवेतरप्रयोगाभ्यां ज्ञेयं तच्छलितं यथा ॥ दिव्यं शूर्पणखा रूपं व्यं-
चरद्वायुनन्दनः । छलितं चानमित्य श्रुत्वा रामं च कीचकम् ॥ (?)
 
१. 'धर्मक्षमासंकेतमार्गम्'; 'धर्मक्षमावर्गेऽन्तर्गतम्'; 'धर्मक्षमाषकेऽन्तर्गम्' पा०.
२. 'निर्जीवानाम्' इति पुस्तकान्तरे नास्ति. ३. 'या नोदना सङ्क्रामार्थ घटना । शास्त्रं
विश्वकमंत्रोक्तम्' पा०. ४. 'मनःसंभवा' पा०. ५. 'भेदाद्विधा' पा०. ६. 'न्यासा-
दतीवारक्षरम्'; 'न्यासाक्षतीवाक्षरम्'; 'न्यासाक्षरतीत्राक्षरम्' पा०. ७. 'व्यतरद्वायुन-
न्दनम् । छलितवानमिस्रत्य' पा०.