This page has not been fully proofread.

:
 
३ अध्यायः]
 
९ साधारणमधिकरणम् ।
 
३९
 
यच्छिरोभ्यङ्गकर्म तत्केशमर्दनम् । केशानां तत्र मृद्यमानत्वात्तैरेव तथ्यपदेशः ।
शेपानेषु मर्दनं संवाहनम् । केशग्रहणमत्रादरार्थम् । तत्र कौशलं पराराधना-
र्थम् ॥ अक्षरमुष्टिकाकथनमिति । अक्षराणां मुष्टिरिव मुष्टिका गुप्तिरिति ।
सा साभासा निराभासा च । तत्र साभासा अक्षरमुद्रेत्युच्यते । तथा कथनं
गूढवस्तुमन्त्रणार्थं ग्रन्थसंक्षेपार्थं च । तैस्या आचार्य रविगुप्तेन चन्द्रप्रभा-
विजयकाव्ये प्रकरणं पृथगुक्तम् । यथोक्तम् –'गहनप्रसन्नसर्वा कतिपयसू-
त्रामिमामनन्तमुखीम् । अनधीत्याक्षरमुद्रां वादसमुद्रे परिष्ठवते ॥ इति । तत्रे-
। दमुदाहरणम् – 'मेवृमिकसिंकतुवृधमकुंमी मूधसत्रांसुशकनिधकआव्याः ।
फाचैवैज्येआश्राभाआकामापौमा चैव ॥" इति । अस्या आर्याया अय-
मर्थ :- प्रथमपादेन मेपादयो राशय उक्ताः । द्वितीयेन राशीनां लग्ना-
त्प्रभृति मूर्तिधनसहजबान्धवसुतशत्रुकलत्रनिधनधर्मकर्मायव्यया इति वि
शेषसंज्ञाः । इतरार्धेन फाल्गुनादयो मासा इति । निराभासा [भूत]मुद्रे-
त्युच्यते ॥ तया कथनं गुह्यवस्तुमन्त्रणार्थम् । यथोक्तम् – 'मुष्टिः किसलयं
चैव च्छटा च त्रिपताकिका । पताकाङ्कुशमुद्राश्च मुद्रा वर्गेपु सप्तसु ॥
अङ्गुल्यश्चाक्षराण्येषां खराश्चाङ्गुलिपर्वसु । संयोगादक्षरं युक्तं भूतमुद्रा
प्रकीर्तिता ॥ इति । एवमन्यापि काव्यसंज्ञाभूतमुद्रा द्रष्टव्या ॥ म्ले-
च्छितविकल्पा इति । यत्साधुशब्दोपनिबद्धमप्यक्षरविन्यासादस्पष्टार्थ
तन्मलेच्छितं गूढवस्तुमत्रार्थम् । तस्य विकल्पा बहवः पूर्वाचार्योक्ताः ।
तद्यथा—'कौटिलीयं यदि क्षान्तैः खरयोईखदीर्घयोः । बिन्दूप्मणोविंप-
र्यासाहुर्योधमिति संज्ञितम् ॥ अकौ खगौ घडो चैव चटौ तपौ यशौ तथा ।
एते व्यस्ताः स्थिराः शेषा मूलदेवीयमुच्यते ॥ ग्रहनयनवसुसमेतं पडा-
ननाख्यानि सागरा मुनयः । ज्वलनानं तुकशृद्धं दुर्लिखितं गृढलेख्य-
मिदम् ॥" इति । एवं प्रकारा अन्येऽपि द्रष्टव्याः ॥ देशभाषाविज्ञानमिति ।
अप्रकाश्यवस्तुज्ञापनार्थं तद्देशीयैर्व्यवहारार्थ च ॥ पुष्पशकटिकेति । पुष्पाणि
 
i
 
i
 
i
 
1
 
१. 'तथा' पा०. २. 'पृथकृतम्' पा०. ३ 'निराभासमुद्रेत्युच्यते पा०.
४. 'कौटलीयादोदेक्षान्त-'; 'कौटिलीर्यदादेक्षान्तेः'; 'कौटिलीचं दादिक्षान्त -' पा०.
५. 'छलनाई तुक' पा०. ६. 'मितम्' पा०. ७. 'विज्ञापनार्थम्', 'विज्ञानार्थम् पा०.