2023-02-19 13:58:50 by ambuda-bot
This page has not been fully proofread.
३८
कामसूत्रम् ।
३ आदितोऽध्यायः]
लोकस्य समस्या पाद इत्यर्थः । तस्या पूरणं क्रीडायै वादार्थं च । तद्यथा
काव्यादर्श – 'आश्वासं जनयति राजमुख्यमध्ये' इति । अयं वा (पा) द
उद्योगपर्वणि विष्णुयाने त्रिभिः पादैः संग्रथितव्य इति समस्या दत्ता ।
तत्र त्रयः पादाः – 'दौत्येन द्विरदपुरं गतस्य विष्णोर्बन्धार्थं प्रतिविहि-
तस्य धार्तराष्ट्रैः । रूपाणि त्रिजगति भूतिमन्ति रोषादाश्वासञ्जनयतिरा-
जमुख्यमध्ये ॥ इत्यादि । अत्र विष्णोर्बन्धार्थ दुर्योधनादिभिर्मनः कृतः ।
त्रिषु लोकेषु भूतिमन्ति रूपाणि [आशु] शीघ्रमासन्बभूवुः । जनस्य
समागतस्य, यतीनां रामकर्णादीनाम्, राजमुख्यानां वाहीकप्रभृतीनां च
मध्य इति । एताः प्रहेलिकादयः षड् वचनकौशलान्तराः कला इह प्रा-
यश उपयुज्यन्त इति संगृहीताः ॥ पट्टिकावेत्रवानविकल्पा इति । पैट्टि-
का छुरिका (?) । पट्टिकाया वानविकल्पाः खट्टाया आसनस्य च वेत्रैर्वा -
नविकल्पाः प्रतीतार्थाः ॥ तक्षकमाणीति । कुन्दकर्माण्यपद्रव्यार्थानि ॥
तक्षणमिति । वर्धकिकर्म । शयनासनाद्यर्थम् ॥ वास्तुविद्येति । ग्रहकर्मों-
पयोगिनी ॥ रूप्यरत्नपरीक्षति । रूप्यमाहतद्रव्यं दीनारादि, रत्नं वज्रम-
णिमुक्तादि, तेषां गुणदोषमूल्यादिमिः परीक्षा व्यवहाराङ्गम् ॥ धातुवाद
इति । क्षेत्रवादः । स हि मृत्प्रस्तररनधातूनां पातनशोघनमेलनादिज्ञान-
हेतुरर्थार्थः ॥ मणिरागाकरज्ञानमिति । स्फटिकमणीनां रञ्जनविज्ञानमर्थार्थ
भूषणार्थं च । पद्मरागादिमणीनामुत्पत्तिस्थानज्ञानमर्थार्थम् ॥ वृक्षायुर्वेदयो-
गा इति । रोपणपुष्टिचिकित्सावैचित्र्यकृतो गृहोद्यानार्थाः ॥ मेषकुक्कुट-
लावकयुद्धविधिरिति । सजीवधूतविधानमेतत् । तत्रोपस्थानादिभिश्चतुरङ्गै-
र्युद्धविधानं क्रीडाथै वादार्थं च ॥ शुकसारिकाप्रलापनमिति । शुकसारि-
का हि मानुषभाषया प्रलापिताः सुभाषितं पठन्ति संदेशं च कथयन्ति ॥
उत्सादने संवाहने केशमर्दने च कौशलमिति । मर्दनं द्विविधम्, पादाभ्यां
हस्ताभ्यां च । तत्र पादाभ्यां यन्मर्दनं तदुत्सादनमुच्यते । हस्ताभ्यां
१. 'वाण' पा०. २. 'छुरिका पट्टिका'; 'छुरिकायावानविकल्पाः' पा०. ३. 'वि-
कल्पार्थाः प्रतीताः'; 'विकल्पा प्रतीतिः' पा०. ४. 'कुट्ट-' पा०. ५. 'रस -' पा०.
६. 'साधन-' पा०.