2023-02-19 13:58:50 by ambuda-bot
This page has not been fully proofread.
३ अध्यायः]
१ साधारणमधिकरणम् ।
-
छित्त्वा दग्ध्वा च पुनरच्छित्त्वादग्ध्वा दर्शनम् । तच्चाङ्गुलिन्यसात् । देव-
कुलादिदर्शनम् । इत्येवंप्रकारा क्रीडार्थेव ॥ वीणाडमरुकवाद्यानीति । वा-
दित्रान्तर्गतत्वेऽपि तन्त्रीवाद्यं प्रधानम् । तत्रापि वीणावाद्यम् । डमरुकवा-
द्यमावश्यकार्थम् । बालोपक्रमहेतुत्वाद्दुर्विज्ञेयत्वाच्च । ततो ह्यक्षराणि स्प-
ष्टान्युच्चार्यमाणानि श्रूयन्ते ॥ प्रहेलिकेति । लोकप्रतीता क्रीडार्था वादार्था
च ॥ प्रतिमालेति । यस्या अन्त्याक्षरिकेति प्रतीतिः । सा क्रीढार्था वाढार्था
च । यथोक्तम् – 'प्रतिश्लोकं क्रमाद्यत्र संधायाक्षरमन्तिमम् । पठेतां
लोकमन्योन्यं प्रतिमालेति सोच्यते ॥ इति ॥ दुर्वाचकयोगा इति । श
ब्दतोऽर्थतश्च दुःखेनोच्यत इति दुर्वाचकम् । तस्य प्रयोगाः क्रीडार्था
वादार्थाश्च । यथा काव्यादर्शे– 'दंष्ट्राग्रद्धर्चा प्राग्यो द्राक्क्ष्मामम्च्वन्तः
स्थामुच्चिक्षेप । देवध्रुक्षिद्धवृत्विक्स्तुत्यो युष्मान्सोऽव्यात्सर्पात्केतुः ॥'
इति । अस्यार्थ: – दंष्ट्राग्रस्य ऋद्धया प्राक्पूर्व द्राक्शीघ्रं क्ष्मां पृथ्वी-
मम्ब्वन्तःस्थां पातालस्थामुच्चिक्षेपोत्क्षिप्तवान् । देवान्द्रुयन्तीति देवद्रुहो-
ऽसुरास्तान्क्षिणोतीति देवश्रुक्षित् । हिशब्दः पादपूरणे । ऋत्विग्भिः
स्तुत्यः । सर्पानतीति सर्पाद्गरुडः स केतुर्ध्वजो यस्येति ॥ पुस्तकवाचनमिति ।
भरतादिकाव्यानां पुस्तकस्थानां शृङ्गारादिरसापेक्षया गीततः खरेण वाच -
नम् । अनुरागजननार्थमात्मविनोदाथै च ॥ नाटकाख्यायिकादर्शनमिति ।
काव्येषु गद्यपद्येषु नाटकस्य बहुप्रपञ्चत्वात्, आख्यायिकायाश्च प्रधानग-
द्यत्वाद्दर्शनं परिज्ञानमिति । आदरार्थ विशेपाभिधानम् । काव्यदर्शनमिति
नोक्तम् । तत्र नाटके दश रूपकाणि । यथोक्तम् – 'नाटकमको वीथी
प्रकरणमीहामृगो डिमो भाणः । व्यायोगसमवकारौ प्रहसनमिति नाटकविक-
ल्पाः ॥' काव्यसमस्यापूरणमिति । समस्यते संक्षिप्यत इति समस्या । हूं -
हासामान्यात् 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न भवति । यद्वा 'कृ
त्यल्युटो बहुलम्' इत्यन्यप्रकृतेरपि यत् । बहुलग्रहणात् । काव्यस्य
tag
-
१. 'न्यासादेव कुलादि-' पा०. २. 'पुनर्विज्ञेयत्वात्' पा०. ३. 'चपा चोसम्'
पा०. ४. 'पातालस्थाम्' इति पुस्तकान्तरे नास्ति. ५. 'इहासामान्यतरस्याम्' पा०.
६. 'यत्' इति पुस्तकान्तरे नास्ति.