This page has not been fully proofread.

३ अध्याय:]
 
१ साधारणमधिकरणम् ।
 
३५
 
p
 
नादिसंस्कारस्यात्यन्ताभीष्टत्वात् । इति ॥ मणिभूमिकाकर्मेति । मणिभूमिका
कृतकुट्टिमा भूमिः । ग्रीप्मे शयनापानकार्थ तस्यां मरकतादिभेदेन कर-
णम् ॥ शयनरचनमिति । शयनीयस्य कालापेक्षया रक्तविरक्तमध्यस्या-
भिप्रायादाहारपरिणतिवशाच रचनम् ॥ उदकवाद्यमिति । उढ़के मुरजा-
दिवद्वाद्यम् ॥ उदकाघात इति । हस्तयन्त्रमुक्कैरुदकैस्ताडनम् । तदुभयं
जलक्रीडाङ्गम् ॥ चित्राश्च योग, इति । नानाप्रकारदौर्भाग्यैकेन्द्रियपलिती-
करणादयः । ईर्ष्यया पैरातिसंधानार्थाः । तानौपनिपदिके वध्यति । एते
च कौचुमारयोगेपु नान्तर्भवन्तीति पृथगुक्ताः । कुचुमारेण तेपामनुक्तत्वात् ॥
माल्यग्रथनविकल्पा इति । माल्यानां मुण्डमालादीना देवतापूजनार्थ नेप-
थ्यानां ग्रथनविकल्पाः ॥ शेखरकापीडयोजनमिति । ग्रथनविकल्प एवा-
यम् । किं तु योजनं कलान्तरम् । तत्र शेखरकस्य शिखास्थानेऽवल-
म्वनन्यासेन परिधापनात् । आपीडस्य च मण्डलाकारेण अथितस्य
काठिका (?) योगेन परिधापनात् । नानावर्णैः पुप्पैर्विरचनं योजनम् ।
पुनर्विरचनवचनमादरार्थम् । तदुभयं नागरकस्य प्रधानं नेपथ्यागम् ॥
नेपथ्यप्रयोगा इति । देशकालापेक्षया वस्त्रमाल्याभरणाढिभिः शोभार्थे
शरीरस्य मण्डनाकाराः ॥ कर्णपत्रभङ्गा इति । दन्तशङ्खादिभिः कर्णपत्र-
विशेषा नेपथ्यार्थाः ॥ गन्धयुक्तिरिति । स्वशास्त्रविहितप्रपञ्चा प्रतीतप्रयोज-
नैव ॥ भूषणयोजनमिति । अलंकारयोगः । स द्विविधः, संयोज्योऽसंयो-
ज्यश्च । तत्र संयोज्यस्य कण्ठिकेन्द्रच्छन्दादेर्मणिमुक्ताप्रवालादिभियां-
जनम् । असंयोज्यस्य कटकर्कुण्डलादेविरचनं योजनम् । तदुभयं नेपथ्या-
ङ्गम् । न तु शरीरे भूषणयोजनम् । तस्य नेपथ्यप्रयोगा इत्यनेनैव सिद्धत्वात् ॥
ऐन्द्रजाला इति । ईन्द्रजालादिशासप्रभवा योगाः । सैन्यदेवालयादिदर्श-
नादहंभावविस्मापनार्थाः ॥ कौचुमारा इति । कुचुमारस्यैते सुभगंकरणादयः
उपायान्तरासिद्धसाधनार्थाः ॥ हस्तलाघवमिति । सर्वकर्मसु लघुहलता ।
 
i
 
:
 
१. 'कारणम्' पा०.
 
२. 'पराभिसंधानार्थी.' पा०. ३. काहिकायोगेन' पा०.
४. 'शङ्खभङ्गादिभिः' पा०. ५. 'कुण्डलादिरचनम्' पा०. ६. 'ऐन्द्रजातारि-' पा०.
७. 'सैन्यवलयादि-' पा०.