This page has not been fully proofread.

३ आदितोऽध्यायः]
 
कामसूत्रम् ।
 
अथवास्त्येव शास्त्रग्रहणं कासांचिदित्याह-
सन्त्यपि खल शास्त्रमहतबुद्धयो गणिका राजपुत्र्यो महामात्र-
दुहितरच ॥
 
सन्त्यपीति । शास्त्रेण महता खिन्ना बुद्धिर्यासामिति । महामात्रेति ।
महती मात्रा येषामिति सामन्ता महासामन्ता वा । हस्तिशिक्षायां वा
तल्लक्षणमनुसर्तव्यम् ।
 
तस्माद्वैश्वासिकाज्जनाइसि
 
भैयोगाञ्छास्त्रमेकदेशं वा स्त्री
 
गृह्णीयात् ॥
 
तस्मादिति । यस्मात्प्रयोगग्रहणं शास्त्रग्रहणं चोभयं तस्मात् । वैश्वा-
सिकाद्विश्वासार्हात् । लज्जानिवृत्त्यर्थम् । प्रयोगान्, या शास्त्रग्रहणास-
मर्था दुर्मेधा । शास्त्रम्, तद्ब्रहणसमर्था मेधाविनी । शास्त्रैकदेशं वा सं-
प्रयोगाङ्गं या मध्यमेधाविनी सा गृह्णीयात् ।
 
अभ्यासप्रयोज्यां चातुःषष्टिकान्योगान्कन्या रहस्येकाकिन्य-
भ्यसेत् ॥
 
अभ्यासेति । चातुःषष्टिकांश्चतुःषष्टिभवान् । कन्येति । तदानीम-
भ्यस्तं यौवने प्रयुज्यते । रहसीति लज्जानिवृत्त्यर्थम् । एकाकिन्याचार्य-
निरपेक्षा ॥
 
कः पुनर्वैश्वासिक इत्याह —
 
-
 
आचार्यास्तु कन्यानां प्रवृत्त पुरुषसंमेयोगा संहसंग्रवृद्धा धात्रे-
यिका । तथाभूता वा निरत्ययसंभाषणा सखी । सँवयाच मातृ-
ष्वसा । विस्रब्धा तत्स्थानीया वृद्धदासी । पूर्वसंसृष्टा वा भिक्षुकी ।
स्वसा च विश्वासप्रयोगात् ॥
 
१. 'रइसि' इति पुस्तकान्तरे नास्ति. २. 'प्रयोगात्' पा०. ३. 'च' इति
पुस्तकान्तरे नास्ति. ४. 'प्रयोगान्' पा०. ५. 'संयोगा' पा०. ६. 'सहसंवृद्धा' पा०.
७. 'समानवया मातृष्वसा' पा०. ८. 'वा' इति पुस्तकान्तरे नास्ति . ९. 'विश्वा-
सयोगात्' पा०.