This page has not been fully proofread.

5
 
" सर्वशास्त्रकलाकलापपारंगमायानेकोच्छिन्नप्रायकाव्यालंकारा दिप्रन्योद्धारकाय
सकलसद्गुणसंपद्विभूषिताय श्रीदुर्गाप्रसाद इति सुगृहीतनाम्ने श्रीजयपुरनिवासिने
महापण्डितशिरोमणये डाक्टर जी० ब्यूलर इत्यमिघस्य राजसभामात्य-
'Hograth' पदविशिष्टस्य संस्कृताध्यापकस्य कुशलप्रश्नपुरःसरं समुल्लसतुतरां
विज्ञप्तिरियम्——–भवत्प्रेषितं कामसूत्रस्य मुद्रितं पुस्तक मया प्राप्तम् । तत्प्रेषणेन चाह-
मतीवोपकृतो भवता । यद्यपि कामसूत्रय भूयांसि स्थलानि लजां वीभत्सां वो-
त्पादयन्ति, तथापि सा श्रीवात्स्यायनमुनिकृतिः काव्यशास्त्राध्ययने भरतखण्डीयप्रा-
चीनवृत्तान्तनिर्णये चोयुक्तैरवश्यमेवावलोकनीया । तेन तत्संशोधने यो भवता प्रयत्नो
विहितः स न निष्फल:, किं तु विद्याविवर्धनायैव । अन्येषामप्यस्मजातीयानां विदुपां
स एवाभिप्रायः । * * 4 काव्यमाला तु चिरं तिष्ठेत्कीर्त्या च वर्धतामिति ममे-
च्छेत्यतिविस्तरेणालम् ॥ — Dr f Buler Ph. D, CI. E., ( 22 Stefamni
Gasse Ober Dobling Vienna, Austria. 3-12-91 )