This page has not been fully proofread.

३ अध्याय:]
 
१ साधारणमधिकरणम् ।
 
अत्र दृष्टान्तमाह -
 
अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका केहं ऋतुपु
प्रयुञ्जते ॥
 
अस्तीति । शब्देनाचोदितार्थस्य युक्त्या विमृश्य चै स्थापनमूहः । स
च प्रातिपदिकलिङ्कवचनान्तरोपादानेन व्याकरणे उक्तः । तद्वयाकरण-
मस्ति । यतोऽयमूहः पारम्पर्याशयात्, इत्यवैयाकरणा अपि याज्ञिकास्तं
ऋतुपु प्रयुञ्जते । तद्यथा— 'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेत्' इति
प्रकृतिप्रयोगः । 'सौर्ये चरुं निर्वपेद्रह्मवर्चसकामः' इति विकृतिप्रयोगः ।
अत्र सूर्यमुद्दिश्योहः । निर्वपेदिति लिङ्गात् । सौर्य चरुं निर्वपेदाम्मे-
यवदिति ।
 
तथाश्वारोहा
 
नयन्ते ॥
 
२९
 
-
 
अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते ॥
पुण्याहेष्विति । अस्ति ज्यौतिपमित्यज्यौतिषिका अपि कुतश्चिदुप-
लभ्य शस्तदिनेषु कर्म कुर्वते । तत्र शास्त्रमेव हेतुः ।
 
गैंजारोहाश्वाश्वान्गजांश्चानधिगतशास्त्रा अपि वि-
तथेति । अनधिगतशास्त्रा इति । हस्त्यश्ववैद्यकं हॅस्तिशिक्षेत्यन-
धीत्याम्नायात्, पोषणदम्यादिकं कर्म कुर्वत इत्येव । तत्रापि शास्त्रमेव हेतुः ।
न शास्त्रं एवायं न्यायो यद्दूरस्थमपि हेतुः । किं तु लोकेऽपीत्याह-
तथास्ति राजेति दूरस्था अपि जनपदा नै मर्यादामतिवर्तन्ते
तदेतत् ॥
 
अस्ति राजेति । दूरस्था अदृष्टराजत्वात् । अस्ति व्यवस्थापकः, यत
इयं व्यवस्थेति तद्भयान्न मर्यादामतिक्रामन्ति । तहदेतदिति दान्तिफे
योजनीयम् ।
 
-
 
१. 'तत्र' पा०. २. 'कहान्कतुषु साधुशब्दान' पा०. २. 'च' इति पुरुष
कान्तरे नास्ति. ४. 'हस्त्यारोहावाश्वान्गजोश्वानधीत्यापि मम्' पा०. ५.१०
स्तिशास्त्रमनधीत्य' पा० ६. 'मर्यादा नास्ति' पा०.