This page has not been fully proofread.

अभ्यवहार इति । यदशनं पानं वा अभ्यवहिते गुडो भक्षितः
प्रत्यानयनमभ्यवहारो वा यदा जीर्णो भवति तदा खच्छता हरितालमन:-
शिलाभक्षिण इति उपवासं कारितस्य मासेन देयम् आदराय ।
 
तृणं लोकप्रतीतम् ॥ हरीतकमिति । पत्रं तरथिता यस्य चटचट इति
प्रतीतिः । आम्रातकः प्रसिद्धः । तयोः पत्रमित्यर्थः ॥ श्रवणप्रियंगुका ज्यो-
तिप्मतीति तत्फलैः सह पिष्वा दुकूलं शुद्धं गृहीत्वा सर्पनिर्मोकेन सह
वर्तिका कार्या । दीपे प्रज्वलिते सति सर्पवद्दृश्यते तदाकारमात्रदर्शनात्
विस्मायनमेतत् ॥ क्षीरपानं धन्यं पवित्रत्वात् यशसे आयुपे च हितं भवति
सर्वदा सेव्यमित्युपदेशः ॥ तथा आशिषश्च प्रसन्नेभ्यो मृग्याः । चित्रा योगाः
इति चतुःषष्टितमं प्रकरणम् ।
 
एवं संक्षेपविस्तराभ्यां शास्त्रं प्रणीय ग्राह्यतां प्रतिपादयितुमाह-
पूर्वशास्त्राणीति । संदृश्येति शब्दतोऽर्थतश्च दृष्ट्वा । तेषां प्रमाण-
त्वात् प्रयोगमनुसृत्य च प्रयोगतश्च ज्ञात्वेत्यर्थः । संक्षेपेणेति । स्वशास्त्रस्य
प्रयोजनं निवेदितुं कथितम् । ननु च संप्रयोगाङ्गं शास्त्रमिदम् । संप्रयोगश्च
रागहेतुः । तं च रागमेवानर्थहेतुं दीपयत्येतद् इत्याह - धर्ममिति । एत
स्येति शास्त्रस्य । यः तत्वज्ञः स नियतं धर्मादीन् पश्यति तांश्च पश्यन् न
रागादनर्थहेतुकात्प्रवर्तते । प्रत्ययं विश्वासम् । लोकमिति । शिष्टमशिष्टं
चेति । यद्येवं किमिति धर्मविरुद्धा औपरिष्टकादयोऽत्र विहिता इत्याह-
अधिकारवशादिति । प्रकरणवशात् रागहेतवः । तदनन्तरमिति वि-
धानानन्तरं प्रयत्नानिर्धारितादेशपुरुषापेक्षया निषिद्धाः ॥ तदेव स्फुटय-
नाह - न शास्त्रमस्तीति । व्याख्यातं चैतत्प्राक् । यतश्च शास्त्रात्प्राधान्येन
संक्षिप्य निबद्धं येन च तदुभयं दर्शयन्नाह – वाभ्रवीयां चेति आग-
मय्य गुरुभ्यः विमृश्य च स्वबुद्ध्या ।
 
मूत्रमिति । कामसूत्रमावर्त्तयत् कृतवान् । यथावस्थ्ययासदर्थच (?) विहितं
तदर्शयन्नाह -तदेतमिति । परेणच समाधिना समाहितेन येन सह ।
लोकयात्रार्थमिति चातुर्वण्यें गृहस्थव्यवहारार्थम् । न पुना रागार्थोस्य
संविधिः कथं न रागार्थों भवतीत्याह – रक्षन्निति । अस्य शाखस्य यस्त-
-