This page has not been fully proofread.

जानि वालुकेति एलवालुका बृहती बृहत्येव कङ्कवृहतीहस्तिनो वा ।
अनयोः फलरसः परिमर्दनं परिषेको वा वर्द्धनं षाडमास्यमिति योज्यम् ॥
तांस्तांश्च योगानिति वर्द्धनस्य वृद्धिविधयः ॥
 
इति त्रिषष्टितमं प्रकरणम् ।
 
उक्तव्यतिरिक्तकार्यसाधनायें प्रकीर्णकन्यायेन चित्रा योगा उच्यन्ते-
अथेति प्रकरणाधिकारार्थम् । स्रुहीति वज्री माझा ॥
 
अवकिरेदिति । शिरस्यवचूर्णयेत् ॥ नान्येन काम्यते तस्या अनेन
रक्षितत्वात् ॥ सोमेति । सोमलता अवल्गुनं वाकुचीबीजम् । भृङ्गो भृङ्गराजः ।
लोहं लोहचूर्णम् । उपजिह्विकाया वल्मीकं चिनोति व्याधिधातुकः सुवर्णसे-
फालिका तस्याः पत्रत्वनिर्यासः जम्बूफलम् । तत्र च निर्यासः फणितीकृ-
तेन तैः सह कल्कीकृतेन रागो नश्यति । संस्पर्शमात्रेण लिङ्गं नोत्तिष्ठती
त्यर्थः । बहुपादिका रुण्डिका । या वर्षासु भवति । स्नाता च गच्छतो रागो
नश्यति ॥ स्रुजवेति । नापि च कुसुमयुक्तादपि नद्धाभ्यां यकृतः कोकि-
लाक्षकः श्वेतः । बीजानि ॥ संहतिमिति संकोचम् । वृक्षात्फलस्य कुसुमम् ।
कन्दुकमिति नजकन्दुकमिति । सर्वसुगन्धावीरणस्थाने वर्षा सुगन्धि-
जयते । विशालीकरणमेकरात्रम् ॥
 
P
 
हिसोमार्कक्षारैरिति दग्ध्वा परिस्राव्य च जलं ग्राह्यम् । अवल्गु-
जफलैश्च क्षारैः । मदयन्तिका प्रसिद्धा । कुटजकः यस्येन्द्रयवा फलानि ।
अञ्जनिका कृष्णकुसुमा प्रतीता । गिरिकर्णिका नालस्य पदो ग्राह्यः
लक्ष्णपण कश्मारी । येषामिति श्वेतीकृतानां प्रत्यानयनं पुनः कृष्णी-
करणमित्यर्थः ॥
 
$
 
एतैरेवेति कषायकल्कीकृतैः क्रमेणेति । दिवसक्रमेण स्वयमेव निव-
र्तते कार्ण्यम् । मुष्कस्वेदेनेवि वृषणप्रस्वेदेन उपलिप्तमिति । औषधज-
लेन बहिरन्तश्च बहुशः क्षालिते उपलिप्तो भवति ॥
 
१ 'नान्यं कामयेत' इति मूलाधिष्ठितपाठः.