This page has not been fully proofread.

१२
 
वृत्तमिति । वर्तुलं मध्येऽस्य द्रोणिका कार्या यत्र चर्मपाशः तिष्ठति ।
एकतो वृत्तमिति । अन्यतो दीर्घमष्टमीचन्द्रसदृशं दोणिका (लूखलं) तथै-
चमुल्लेखनमुलूखलाकृति ॥ मध्ये निम्नं यत्र पाशः तिष्ठति । कुसुमकं कलि-
काकृति (पद्म) मध्येस्य द्रोणिका । कण्टकितं कारविल्लसंस्थानं द्रोणिका ।
तथैव द्वयोरप्यायामेन योजनम् । काकास्थि समचतुरस्रं द्रोणिका । तथैव
गजमहारिकं गजस्याकृति सिंहकरं उत्कीर्णनिर्मि(?) गतं तदनस्या ग्रीवा
शिरोदन्तान्तरभागेन द्रोणिका । अष्टममष्टाश्रिटकं तस्योर्ध्वाधः कोणेन द्रो-
णिका अमरकं शकटाकृति पार्श्वतः कीलिका योगा चलचक्रमायामेन द्रो-
णिका द्वयोरपि कोणेन प्रवेशनम् । अन्यानि च योजयेत् । तत्राप्युपायतः
यान्युपायानि रतेः प्रतिपद्यन्ते ॥ कर्मतश्चेति । यानि चर्मपाशेन संयोज्य
कर्मणि निरपायं व्यापार्यते। यथा साम्यमिति । मृदुमध्यातिमात्रेण संवा-
धस्य कार्कश्यं बुद्धा तदनुरूपकार्कश्यं विधेयम् । मार्दवं येषां मसृणता
विद्यते ॥
 
इति नष्टरागप्रत्यानयनं द्विपष्टितमप्रकरणम् ॥
 
-
 
यथा आपद्रव्यसंयोगालिङ्गं कर्मण्यम् । तथा शसस्य (?) वर्धितमपीति
वृद्धविधय उच्यन्ते – एवमिति । वृपजातानामन्येनानुयोगित्वाद्यञ्चता-
मिति कन्दलिकानां शूकैः लोमभिः उपबृंहन्निति तदंशिकायां जन्तून्ग-
हीत्वा शूकैः पार्श्वपु लिङ्गं ताडयेत् । 'तृह हिंसायाम्' इति धातुपाठात् ।
तैलमृदित्तमाकृप्य । जातशोक (फ) मिति । जातश्वयथु ।
 
शल्वातरणेति । खट्टावस्त्रान्तरेण लम्वयेत् दैर्ध्यार्थम् ॥ तत्रे ( त इ)ति ।
ईप्सितप्रमाणे जाते शीतैः पञ्चकपायैः कृतवेदनाग्रहणमिति परिपिच्य
परिपिच्यापनीतवेदनम् । अन्यथा शोफो वर्धते वेदना चेति । शवरकन्दकं
शबरमूलम् । जलशुकं लोकप्रतीतम् । इस्तिकर्ण बृहत्पत्रमटव्यां भवति ॥
वज्रवली अस्थिसंहारः ॥ मासिकमिति । वर्द्धितं मासे तिष्ठति ॥ एतै-
रेवेति । अश्वगन्धादिमिः कल्कीकृतैः कपाययुक्तैरिति तं कृतकपाययुक्तैः ।
तैलेनेति परिमर्दनं बर्द्धनं पाडमास्यमिति योज्यं । दाडिमत्रपुपयोर्वी-