This page has not been fully proofread.

११
 
-
 
लिकाभिरन्तरान्तरा मुक्तसंधिं कृतोत्कीर्णाभिर्युक्तजालकम् । तत् द्विविधं
उत्कीर्णजालकं यदिदमुक्तम् । वलयं बहुछिद्रं कृत्वा दृढसूत्राण्यवबध्य छिद्र-
स्फोटितगुलिकादिभिर्विबद्धगुलिका दत्त्वा विरच्यते तन्मणिजालकम् ।
तस्याग्रे विधानिका योजनं कार्यम् । प्रमाणवशयोगीति । उभयोरपि घटित-
लिङ्गस्यायामपरिणाहावपेक्ष्य समन्तात्कनुकस्य जालकस्य च योग इत्यर्थः ।
 
तदलाभत इति यथोक्तसंस्थानघटनाभावे । बिल्वादीनां योजनं तेषां
लिङ्गसंस्थानत्वात् । अत्र वेण्वलाबूनालयोरमं तु प्रसृष्टं कार्यम् । शुकरज-
ङ्घावद्ध इति । शूकरजङ्घातः प्रमाणवशेन निर्मोकवदांकृष्टं चर्म । स्व (सु)-
भावित इति च चर्मकषायैः कषायितः तैलैः स्नेहितः कर्मण्यो भवति ।
लक्ष्णकाष्ठामाला चेति । मसृणाभिः काष्ठगुलिकाभिः अन्तरान्तरामलका-
स्थीनि दत्त्वा ग्रथिता माला तया तथा लिङ्गस्य वेष्टनं यथा सुश्लिष्टं भवति ।
विद्धमधिकृत्याह-
न विति । अविद्धस्य लिङ्गस्येति संबन्धः । व्यतिहृतिः संप्रयोगः ।
वालस्यै (स्ये) वेति । यथा कर्णयोर्बालावस्थायामेव व्यथनं तथा लिङ्गस्य
यूनां च तत्र अन्यस्य वा लिङ्गस्य व्यघनविधिमाह — व (श) खेणेत्याराख्येन ।
भेदयित्वेत्यनेन कुशलेन वहिश्चर्माकृष्य अन्यत्र स्थापयित्वा शिरां
त्यक्त्वा तिर्यक् छेदयेत् यथोभयतः छिद्रं भवति । उदके तिष्ठेद्बुधिरस्तम्भ-
नार्थम् । वैशद्यार्थमिति छिद्रस्यासंकोचार्थम् । निर्वन्धाव्यवाय इति बहू-
न्वारान् मैथुनं कार्य ममत्वे हि तत्प्रतीकारस्य पीडाभावात्-
कषायैरिति । पञ्चकषाय (यै :) शोधनं प्रक्षालनं वर्ण (व्रण)स्य ॥ वेत-
सादिशङ्कुभिः कीलकादिभिः क्रमेण वर्धनं तेषामक्रमेण वर्धमानत्वात् ।
यष्टिमधुकेन मधुयुक्तेन प्रलेपनशोधनम् । शुद्धं हि नणं रोहति तत
इति उत्तरकालम् । सीसपत्रकर्णिकयेति सीसकस्य वर्धनहेतुत्वात् । तत्पत्र
तु तालपत्रवत्सेवेष्टितम् ॥ प्रक्षिप्य वर्धयेत् ॥ त्रयेच शल्यकतैलेन
प्रवेशनार्थम् ॥ तस्मिन्निति बहुछिद्रे । अनेकाकृतिविकल्पानीति अने-
कसंस्थानेन कल्पितानि ।