This page has not been fully proofread.

-
 
·
 
पुष्यारम्भणमिति । पुण्यनक्षत्रे प्राशितुमारव्धव्यम्। श्रीपर्णी काश्मीरी ।
चतुर्गुणितजलेनेति । शताण्डस्थापितं ततो द्विफलकं चूर्णमादाय प्राश्री-
यात् ॥ उक्तमेवार्थे पङ्किपरिहारार्थमाह - आयुर्वेदादिति । वैद्य-
कात् । वेदाचेति । अथर्वणवेदात् । विद्यातन्त्रेभ्य इति । मन्त्रवादेभ्यः ।
आप्तेभ्य इति । तन्त्रकुशलेभ्यो विश्वासिभ्यो संदिग्धान् द्रव्ययोगमात्राणां
सन्देहान् । शरीरात्ययवहान् ये प्रयुक्ताः शरीरविनाशमप्यावहन्ति –
जीवघातसंबद्धान् ये प्राणिनो विनाश्य युज्यन्ते । अशुचिद्रव्यसंयुतान्
शुक्रशोणितादिभिः संयोज्याशनपानेन दीयन्ते । 'तपोयुक्तः प्रयुञ्जीत;
सर्वसिद्धीनां तपोमूलत्वात् । शिष्टैराचारविद्भिः । विधिनेति । अविधिपूर्व
हि सुभगंकरणादिः क्रियमाणो न सिध्यति । मङ्गलैः प्रशस्तवचनादिभिः ॥
वृष्यायोगा एकषष्टितमं प्रकरणम् ॥
सप्तमेऽधिकरणे प्रथमाध्यायः ।
 
द्वितीयाध्यायः ।
 
द्विविघं रतमपत्यफलं रतिफलं च ॥ पूर्वत्र वृष्ययोगा उक्ताः। द्वितीये
नष्टरागप्रत्यानयनमुच्यते ॥ कस्यचित्स्वभावतोऽवस्थाया विनष्टो रागः
• प्रयोगात्प्रत्यानीयते । यदाह -
 
wedengking
 
चण्डवेगानामिति । रजयितुं सुखयितुमशक्नुवन् नष्टरागत्वात् ।
योगानिति प्रयोगान् । नष्टो रागो द्विविधो मन्दो ध्वस्तश्च । तत्र मन्दः
प्रवर्तकोऽप्रवर्तकश्च । तत्र पूर्वमधिकृत्याह — रतस्येति – सप्रयोगस्य ।
उपक्रम इत्ययमारम्भे यद्यपि मन्दो रागो रते प्रवर्तयति स्तव्धलिङ्गत्वात्
तथापि प्रथमं संवाधस्य भगस्य । करेणोपमर्दनं गजहस्तेन क्षोभणं
कार्यम् । तस्या इति चण्डवेगायाः करेणोपमर्दनाद्रसप्राप्तिकाले रतयो-
जनमिति । यत्रयोजनम् । रागमत्यानयनमिति । स्त्रीच्छाया तावन्तं
कारश्च (?) रागस्य प्रवर्तितत्वात् ।
 
अप्रवर्तकमधिकृत्याह-
मन्दवेगस्येति । यस्योत्पन्नोपि रागो न प्रवर्तयति लिङ्गस्यान तिस्त-