This page has not been fully proofread.

एतद् गोपयसा सह कथितम् । सशर्करेणेति । शीतीभूतं शर्करां दत्त्वा
पीत्वा वृपीभवति । व्यवायक्षम (कम्) इत्यर्थः । मेपः प्रसिद्धः । वस्तः
छागः । तयोरन्यतरस्य मुष्कः वृपणं तेन सिद्धस्य कथितस्य । विदारी प्र
सिद्धा । तस्याः कन्दम् । क्षीरिका राजादनम् । तस्याः फलानि । स्वयंगुप्ता
कपिकच्छुः तस्या मूलं क्षीरेण पानं कथितेन वृपत्वयोगः । असमासनिर्दे-
शात्प्रत्येकं योगः ।
 
प्रियालवीजानामिति । अस्थ्युपनीय गृहीतानामित्येको योगः ।
मोरटाविदार्योरिति द्वितीयः । तत्र मोरटा इक्षुमूलम् । शृङ्गाटकः प्रसिद्धः
तस्य सर्वे ग्राह्यम् । कशेरुका प्रतीता । वच मल्लिकाख्या प्राद्या । मधूलिका
मधुकफलत्वात् मधुकं यष्टीमधु क्षीरकाकोली वणिद्रव्यं पिवा समां-
शानि । उत्करिका अपूपिका । यावदर्थमिति यावत्तृति भक्षितवान् ।
अनन्ता इति । वहीः ॥
 
मापकमलिनी मापविदलिका । पयसा धौतामिति जलेन निस्तु-
पीकृत्य संशोध्य च क्षीरेण धौताम् । वृद्धवत्साया इति । चर्करिकाया
इति ॥ आशित्वेति शीतीभूतं मधुसर्पिय विषमाभ्यां सहेत्यर्थः ।
गोधूमचूर्णेनेति । कणिक्यया ॥
 
चटकाण्डरसेनेति ग्राम्यचटकस्य स्वयं स्फुटिते अण्डे स्वयंमृतेन
पोतेन रसकः कार्यः । तेन भावितानीत्यर्थः ॥
 
अपगतत्वेति । निस्तुपाः । स्वयं गुप्तायाः फलानि, नतु मूलं ग्राह्यम् ।
पक्कसंयाव इति यावकम् ॥
 
द्वेद्वे इति एकैकस्य । मधुरसाया इति तिक्तवल्लिकायाः । प्रस्थं
पयस इति द्वात्रिंशत्पलानि । पडाङ्गकमिति शर्करादयः पडितिकृत्वा ।
अमृतं स्वादुत्वात् । मेध्यं मेघाहितम् । युक्तरथ (स) मिति । योगवाहि
स्त्रीसहायमित्यर्थः ॥
 
शतावरी प्रतीता श्वदंष्ट्रा गोक्षुरकः । एभिः कपायैः यस्मिन्घृते पिप्पली
मधूकं कल्को यस्मिन्गोक्षीरमेवापःप्रक्षेपो यस्मिन्पक्के इति पाकविधानेन ।