This page has not been fully proofread.

स्वयं मृताया इति । तस्या एव कार्यकरणात् । मण्डलकारिका-
या इति । या मण्डलेन पानीये संघशो भ्रमन्ति ॥
 
वज्रहीति या साश्रिः । गण्डकानि खण्डश इति खण्डं खण्डम् ।
कृतानि तस्याः । सप्तकृत्व इति सप्तवारान् ॥
 
एतेनैवेति । चूर्णेन । सौवर्ण दर्शयति विस्मापनमेतत्प्रासङ्गिके ॥
तैरेवेति । वज्रनुह्यादिचूर्णैः । वानरपुरीपमिश्रैरिति जातमुखरागो
यो वानरः तस्य पुरीषेणेत्यानायः ॥
 
व चागण्डकानि । श्वेतायाः वचायाः ॥ वृक्षस्कन्धमिति । यतः
शाखा निःसृता । देवकान्तं देवप्रियम् । वशीकरणं चेति स्वहृदयान्मूल-
मुत्पाठ्य योजितमित्यानायः ॥ केवलं त्वात्मनोऽनुविलेपनं सुभगंकरणज-
वशीकरणम् ॥
 
ताम्बूलानीति । अच्छानि । सहकारतैललिप्तानीति वर्तते । यं वृक्ष-
मिति सुरभिकुसुमम्। उत्कीर्य उत्कीर्णस्कन्धदेशम्, इत्युत्तरत्रापि योज्यम् ।
 
प्रियंगव इति । प्रियंगुकुसुमानि । तगरमिश्र इति कौरण्टकेन तुल्य-
भागेन मिश्राः । नागवृक्षं नागकेसरम् । एतत्रिविधमनुलेपनं देवगन्धर्व-
नागसत्त्वेष्वेव योजयेत् । सत्त्वपरिज्ञानं च शास्त्रान्तरादनुमन्तव्यम् । उष्ट्रा-
स्यीति । तण्डुलभेदं कृत्वा । भावितं त्रिः सप्तकृत्वः । दग्धमिति । अन्तर्धूमम् ।
अञ्जनमिति मषीभावमुपगतम् । नलिकायामिति । उष्ट्रास्थिनलिकायाम् ।
स्रोतोञ्जनेन तुल्यभागेन सह हृषदि लक्ष्णीकृत्य निहितः, उष्ट्रास्थिशला-
कयैव घटितया चक्षुषोर्वियोजितम् । पुण्यमिति । पवित्रम् । चक्षुष्यं तिमि-
राद्यपनयात् । वशीकरणं चेति । यः प्रथमं दृश्यते स वशी भवति । शेष
सुभगंकरणमित्यपदेशः ॥ एतेनेति उष्ट्रास्थ्यञ्जनविधानेन । तत्र भासः
गोष्टः कर्कटकः पक्षी ॥
 
वशीकरणं षष्टितमं प्रकरणम् ॥
 
वशीकृतापि प्रयोज्या रन्तुमसमर्थस्य निष्फलैवेति वृषहिता वृष्या योगा
उच्यन्ते – उच्चटा प्रसिद्धा तस्याः कन्दश्चव्या वणिद्रव्यं यष्टिमधुकं च