This page has not been fully proofread.

इति । स्वदुहितुः यादृशं रूपादि तदानुरूप्येणेति तत्सदृशाः । तानिति ।
दुहितुर्ये गम्याः । अभिनिमन्त्रय सारेणेति । विभवेन खेनाभिमुख्येन खगृहे
निमन्त्र्य । अस्यै दुहित्रे । इदमिदंचेति । ईप्सितमाह । संसाध्येति । उक्त्वा
रक्षयेत् पण्यधर्मित्वात् ॥
 
सा चेति । दुहिता । अविदिता नामेति । यथैते जानन्त्यस्मास्वनुर-
क्तेयम् । येन रक्ष्यमाणापि मातुरविदितैव, गच्छतीति । धनिभिर्नान्यैर्निर-
र्थकत्वात् । मीयेत प्रीतिं कुर्यात् ॥
 
-
 
प्रीतिश्व दर्शनपूर्विका । दर्शनं च विशिष्टे देशे काले चेत्याह – तेपा
मिति । कलाग्रहणकाले गान्धर्वशालायामिति । यत्राचार्यो नृत्यगीतं
शिक्षयति । भिक्षुकीभवन इति भिक्षुक्यादिकलाविदग्धोपगम्यते । तत्र
तत्र चेति । सरस्वतीभवनोद्यानादिपु ।
 
तेषामिति । प्रीत्यनुबद्धानामिति । यथोक्तदायिनामिति । मात्रा
यत्संभावितं तद्दायिनाम् । पाणिं ग्राहयेदिति । देशप्रवृत्तिरत्रानुसर्तव्या ॥
तावदिति । यावत्प्रमाणं संभाषितम् । अलभमाना पाणिग्रहणादूर्ध्वम् ।
खेनापीति । आर्थी (त्मी) येन । एकदेशेनेति । संभाषिताद्यममातृकं
दत्तं तावनैकदेशेन संयोज्य ख्यापयेत् सौभाग्यख्यापनार्थम् ।
 
ऊढाया वेति । दैवेन विवाहेन योजिताया इत्यर्थः । कन्याभावं
विमोचयेदिति । पूर्वेणैव प्रकारेण कौमारं का ( हा ) रयेदित्यर्थः । तेन
प्राप्तयौवनामूढां स्वां दुहितरमित्यादि सबै योज्यम् । विशेषोऽत्र स पाणि
गृह्णीयादित्यस्य स्थाने स कौमारकं कुर्यादिति । यथोक्तदायिनं ग्राहये-
दित्यस्य स्थाने कौमारकं का (हा रयेदिति ।
 

 
प्रच्छन्नं वेति । योऽभिप्रेतः कन्याभावं विमोचयितुं तेन प्रच्छन्नं सं-
योज्य । अजानतीभूत्वेति । न ममानुज्ञातमिति दर्शनार्थम् । एवं च
सति तत उत्तरकालं विदितेषु घर्मस्थेष्वेतं (वं) नावेदयेत् । अभिसंभा-
पितम (न) थे न दद्यादित्यभिप्रायः । तावदलभमाना तु स्वेनाप्येकदेशेनेति
तत्राभियोज्यम् ।