This page has not been fully proofread.

नाग इति । नागः, केसरः पद्मादीनाम् । केसराण्येकीकृत्य संचूर्ण्य ।
अवलियेति । वमनविरेचनं कृत्वा, तत्रापि न तदैव सुभगो मासादूर्ध्वे ह-
टशक्तिः ।
 
तान्येवेति । पद्मादिकेसराणि तगरादियुक्तानि अनुलिप्येत्यनुलेपन
कृत्वा शरीरस्य सुभगो भवति ।
 
मयूरस्येति । यो न विशीर्णबईः । तरक्षोर्वेति । यो मत्तः, स हि
ग्रीप्मे माद्यति । अक्षीति । दक्षिणं वामं च ग्राह्यम् । द्वयोरेव सामर्थ्यमि-
त्यामायः ।
 
सुवर्णेनावलिप्येति । शुद्धसुवर्णपत्रेण पुप्ययोगेन वेष्टयित्वा ॥
वादरमणिमिति । बदरस्य बदरीवृक्षस्योत्तरशिफाघटितां वृत्तगु-
लिकाम् । शङ्खमणिमिति । दक्षिणावर्तशङ्खनाभिघटिताम् । तथैवेति ।
सुवर्णेनावलिप्य हस्तेन धारयेत् ॥
 
तेषु चेति । धारणायोगेपु । आथर्वणानिति । अथर्ववेदे बहवो धार-
णायोगा उक्ताः ॥
 
विद्यातन्त्रादिति । मन्त्रवादात्तत्रापि भूर्जपत्रलिखितविद्याधारणयोगाः ।
अनुष्ठानविशेषोऽपि क्वचित्सौभाग्यनिबन्धनमित्याह-माप्तयौवना
मिति । या बाल (ल्य ) इव अनन्यपूर्वा स्वामिनं परिचरति तो तरुणीमन्यतो
वारयेद्रक्षयेत् । यथान्यैर्नाभिगम्यते । स्वयं त्वभिगच्छेदित्यर्थोक्तम् ।
 
तत इति । तस्याः वारितवामत्वादिति । रक्षणयोगात्कामिनो वारिताः
कौतूहलाप्रतिकूला भवन्ति । ततश्च तेपु लालसीभूतेषु अत्यन्तगृभुपु
योऽस्यै परिचारिकायै ॥ संघर्पेणेति । स्पर्धया वहु द्रव्यं दद्यात् । दुर्लभं
हि प्रियमन्वितं च भवतीति प्रायोवादः ॥ विसृजेदिति । अभिगन्तुं
दद्यात् ॥ विशेषत्वात् (पतः) वेश्यापाणिग्रहणेऽपि विधिः सौभाग्यनिबन्ध-
नम् । पाणिग्रहश्च द्विविधः । यथोक्तम्- 'दैवमानवभेदेन वेश्याविवहनं
द्विधा । दैवं मन्मथकाण्डेन गम्येनाप्यपरं भवेत्' इति ॥ तत्र मानुषम-
धिकृत्य विधिमाह -गणिकेति । प्राप्तयौवनां रक्षयेदिति संबन्धः । तस्या