This page has not been fully proofread.

1
 
२ अध्यायः]
 
७ औपनिषदिकमधिकरणम् ।
 
३६९
 
टजशङ्कुभिः क्रमेण वर्धमानस्य वर्षनैर्वन्धनम् । यष्टीमधुकेन मधुयु-
क्तेन शोधनम् । ततः सीसपत्रकर्णिकया वर्षयेत् । म्रक्षयेद्रछात-
कतैलेनेति व्यधनयोगाः । तस्मिन्ननेकाकृतिविकल्पान्यपद्रव्याणि
योजयेत् । वृत्तमेकतो वृत्तमुदूखलकं कुसुमकं कण्टकितं कङ्कास्यि-
गजमहारिकमष्टमण्डलिकं भ्रमरकं शृङ्गाटकमन्यानि वोपायतः
कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यमिति नष्टरा-
गप्रत्यानयनम् । ( द्वापष्टितमं प्रकरणम् ॥)
 
एवं वृक्षजानां जन्तूनां शुकैरुपलिप्तं लिङ्गं दशरात्रं तैलेन मृ-
दितं पुनः पुनरुपलिप्तं पुनः प्रमृदितमिति जातशोफं खट्टायामधो-
मुखस्तदन्तरे लम्वयेत् । ततः शीतैः कपायैः कृतवेदनानिग्रहं सो-
'पक्रमेण निष्पादयेत् । स यावज्जीवं शुकजो नाम शोफो विटानाम् ।
अश्वगन्धाशबरकन्दजलश्कबृहतीफलमाहिषनवनीतहस्तिकर्णवज्र-
वल्लीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम् । एतैरेव कपायैः पकेन
तैलेन परिमर्दनं षण्मास्यम् । दाडिमत्रपुसवीजानि वालुकं बृहती-
फलरसति मृद्रग्झिना पकेन तैलेन परिमर्दनं परिषेको वा । ता-
स्तांच योगानाप्तेभ्यो बुध्येतेति वर्धनयोगाः । (त्रिपष्टितमं
मकरणम् ॥)
 
हीकण्टकचूर्णैः पुनर्नवावानरपुरीपलाङ्गलिकामूलमित्रैर्याम-
वकिरेत्सा नान्यं कामयेत । तथा सोमलतावलगुजभृङ्गलोहोपजिहि-
काचूर्णैर्व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन लिप्तसंवाघां
गच्छतो रागो नश्यति । गोपालिकाबहुपादिकाजिहिका चूर्णैर्मा -
हिपतऋयुक्तैः स्नातायां गच्छतो रागो नश्यति । नीपात्रातकजम्बू-
कुसुमयुक्तमनुलेपनं दौर्भाग्यकरं सजय । कोकिलाक्षफलमलेपो
हस्तिन्याः संहतमेकरात्रं करोति । पद्मोत्पलकन्दसर्जकसुगन्धचूर्णा-
१. 'कङ्कास्थिमजकप्रहारिक'. २. 'निप्पातयेत् .
 
का० ४७