This page has not been fully proofread.

३ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
२७
 
श्वानां महायज्ञानां प्रवर्तनं धर्मो निरनुबन्धः । भूम्याद्यर्जनमथ निरनु-
बन्धः । परिचारिकायामभिप्रेतायां कामो निरनुबन्धः । अस्मिन्पने पर-
स्परस्यानुपघातकं प्रदर्शयन्नाह न त्वेकार्थं द्विवाधकमिति । एक आ
त्मैवार्थ: प्रयोजनं यस्य तदेकार्थ द्वयोर्बाधकं न कुर्यात् । अतिदानेन
धर्मोऽर्थ बाघते कामं च बाधते । तपसा चात्यन्तसेवितेन कामं बाधित्वा
शरीरक्षयादर्थमुपहन्ति । तथार्थस्तादात्मिक उपादीयमानः पुरुषवश इव
धर्मकामौ वाधते । कामस्तूत्तमवर्णासु दाण्डक्यस्येवान्यत्र वात्यासेवित
उभयं वाघते । यदेकस्य साधकमेन्यस्य बाधकं तत्पूर्वोत्तरबाधापेक्षया
कुर्यात् । तेच यथोक्तं प्रागिति ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमद्गलाभिधानायां विदग्धादनाविरह-
कातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाण्याया
साधारणे प्रथमेsधिकरणे त्रिवर्गप्रतिपत्तिद्वितीयोऽध्यायः ।
 
तृतीयोऽध्यायः ।
 
एवं प्रतिपन्नत्रिवर्गस्य सिद्धौ प्रथम उपायो यद्विद्याग्रहणम् । अगृहीत-
विद्यस्यानन्तरव्यापारासंभवात् । इति विद्यासमुद्देश उच्यते । समुद्देशन्ध
संक्षेपाभिधानम् । निर्देशश्च शास्त्रान्तरादुपदेशाच्चापेक्षणीयः ।
यथा च तासां ग्रहणं तथा दर्शयन्नाह -
धर्मार्थाङ्गविद्याकालाननुपरोधयन्कामसूत्रं तदङ्गविद्यार्थी पुरुषो
 
ऽधीयीत ॥
 
धर्मेत्यादि । तत्र धर्मविद्या श्रुतिः स्मृतिश्च । अर्थविद्या वार्ताशासम् ।
तयोरङ्गविद्या दण्डनीतिः । योगक्षेमसाधनात् । आन्वीक्षकी तु तत्त्वनि-
श्रयहेतुत्वात् । तासां प्रधानानां यथास्वमध्ययनकालाननुपरोधयन्नहापयन्,
अन्तरान्तरा कामसूत्रमिदमेव तदङ्गविद्याध गीतादिका अधीयीत पाठ-
वणाभ्याम् ।
 

 
माग्यौवनात्स्त्री । मत्ता च पत्युरभिमायात् । योषितां शास्त्रग्र-
हणसभावादनर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः ॥
 

 
१. 'अपरस्य' पा० २. 'न वा' पा०. ३. 'व्यापारान्तरासभवात्' पा० ४. 'च'
इति पुस्तकान्तरे नास्ति ५. 'तु' इति पुस्तकान्तरे नास्ति ६. 'असभवान्' पा०.