This page has not been fully proofread.

5
 
P,
 
१ अध्याय:]
 
७ औपनिपदिकमधिकरणम् ।
 
३६७
 
उच्चटाकन्दश्च यष्टीमधुकं च सशर्करेण पयसा पीत्वा वृषो भ-
वति । मेषवस्तमुष्कसिद्धस्य पयसः सशर्करस्य पानं नृपत्वयोगः ।
तथा विदार्याः क्षीरिकायाः स्वयंगुसायाच क्षीरेण पानम् । तथा
पियालवीजानां मोरटाक्षीरविदार्योथ क्षीरेणैव । शृङ्गाटककसेरुमे-
धूकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दा-
ग्रिनोत्कारिकां पक्त्वा यावदर्थे भक्षितवाननन्ताः स्त्रियो गच्छती-
त्याचक्षते । मापकलधौतामुष्णेन घृतेन मृदूकृत्योद्धृतां वृद्धवत्साया:
गोः पयः सिद्धं पायसं मधुसर्पियिमशित्वानन्ताः स्त्रियो गच्छ-
तीत्याचक्षते । विदारी स्वयंगुप्ता शर्करामधुसपिंर्भ्यां गोधूमचूर्णेन
पोलिकां कृत्वा यावदर्थ भक्षितवाननन्ताः स्त्रियो गच्छतीत्याच-
क्षते । चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसपिय प्ला-
वितं यावदर्थमिति समानं पूर्वेण । चटकाण्डरसभावितानपुगतत्व-
चस्तिलान् शृङ्गाटककसेरुकस्वयंगुप्ताफलानि गोधूममापचूर्णैः म-
शर्करेण पयसा सर्पिपा च पकं पायसं यावदर्ये माशितमिति स-
मानं पूर्वेण । सर्पिपो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधु-
रसायाः कर्पः प्रस्थं पयस इति पढङ्गममृतं मेध्यं वृष्यमायुप्यं युक्त-
रसमित्याचक्षते । शतावरीश्वदंष्ट्रागुडकपाये पिप्पलीमधुकरके गो-
क्षीरच्छागघृते पके तस्य पुष्पारम्भेणान्वहं माशनं मेध्यं दृप्यमा-
युष्यं युक्तरसमित्याचक्षते । शतावर्याः वदंष्ट्रायाः श्रीपर्णीफलानां
च क्षुण्णानां चतुर्गुणे जले पाक आ प्रकृत्यवस्थानात् । तस्य पुप्पा-
रम्भेण प्रातः प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचक्षते । श्व-
दंष्ट्राचूर्णसमन्वितं तत्सममेव यवचूर्ण प्रातरुत्थाय द्विपलिकमनु-
दिनं मानीयान्मेध्यं वृष्यमायुष्यं युक्तरसमित्याचक्षते । ( इति -
प्यायोगाः । एकपष्टितमं मकरणम् ॥)
 
आयुर्वेदाच वेदाच्च विद्यातन्त्रेभ्य एव च ।
आप्तेभ्यश्चाववोद्धव्या योगा ये प्रीतिकारकाः ॥
१. 'मधूलिकानि'. २. 'मापकुलमा'.