This page has not been fully proofread.

कामसूत्रम् ।
 
३५ आदितोऽध्यायः]
 
वयसि सौभाग्ये च दुहितरमवसृजन्ति गणिका इति प्राप्योपचाराः ।
पाणिग्रहश्च संवत्सरमव्यभिचार्यस्ततो यथाकामिनी सात् । ऊर्ध्व-
मपि संवत्सरात्परिणीतेन निमन्त्रयमाणा लाभमप्युत्सृज्य तां रात्रि
तस्यागच्छेदिति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च ।
एतेन रङ्गोपजीविनां कन्या व्याख्याताः । तस्मै तु तां दर्य एषां
तूर्यविशिष्टसुपकुर्यात् । इति सुभगंकरणम् । ( एकोनषष्टितमं प्रक-
रणम् ॥)
 
धचूरकमरिचपिप्पली चूर्णैर्मधुमिश्रैर्लिप्सलिङ्गस्य प्रयोगो वशीक-
रणम् । वातोद्भान्तपत्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीक-
रणम् । स्वयंमृताया मैण्डलकारिकाया चूर्ण मधुसंयुक्तं सहामलकैः
स्नानं वशीकरणम् । वज्रस्तुहीगण्डकानि खण्डशः कृतानि मनःशि-
लागन्धपापाणचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयिखा
मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम् । एतेनैव रात्रौ धूमं कृत्वा
तमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति । एतैरेव चूर्णितैर्वानर-
पुरीपमिश्रितै कन्यामवकिरेत्सान्यस्मै न दीयते । वचार्गेण्ड-
कानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धमुत्कीर्य निदध्यात् ।
पड्भिर्मासैरपनीतानि देवकान्तमनुलेपनं वशीकरणं चेत्याचक्षते ।
तथा खदिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य निदध्यात्त-
त्पुष्पगन्धानि भवन्ति । गन्धर्वकान्तमनुलेपनं वशीकरणं चेत्याच-
क्षते प्रियंगवस्तगरमिश्राः सहकारतैलदिग्धा नागकेसरवृक्षमुत्कीर्य
पण्मासनिहिता नागकान्तमनुलेपनं वशीकरणमित्याचक्षते । उष्ट्र-
स्वास्थि भृङ्गराजरसेन भावितं दग्धमञ्जनमुट्रास्थ्यञ्जनिकायां नि-
हितमुद्रास्थिशलाकयैव स्रोतोञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं
चेत्याचक्षते । एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्या
तानि । ( इति वशीकरणम् । पष्टितमं प्रकरणम् ॥)
 
१. 'मयूरास्थिचूर्ण'. २. 'मण्डलकारिका गृध्री' इति वृत्तिकृत्. ३. 'गण्डकारिकाः'.
४. 'खण्डकानि'. ५. 'खदिरसाराणि'.