This page has not been fully proofread.

३६२
 
कामसूत्रम् ।
 
३४ आदितोऽध्यायः ]
 
च द्वानवतिशतम् । एवं बात्रव्यस्य । ते-

 
एवमौद्दालकेर्व्यतिषङ्गसंयोगानां
प्वपि सहायैर्विमृश्येत्यादियोज्यम्
 
उक्ता उभयतो योगास्त्रिविधाः-
शुद्धाः संकीर्णा व्यतिषक्ताश्च । स-
मन्ततो योगं दर्शयितुं विशेषमाह --
 
संभूय च विटाः परिगृहन्येकामसौ गोष्ठीपरिग्रहः । सा तेषा-
मितस्ततः संसृज्यमाना प्रत्येकं संघर्षादर्य निर्वर्तयेत् । सुवसन्तका-
दिषु च योगे यो मे इमममुं च संपादयिष्यति तस्याद्य गमिष्यति
मे दुहितेति मात्रा वाचयेत् । तेषां च संघर्षजेऽभिगमने कार्याणि
लक्षयेत् । एकतोऽर्थः सर्वतोऽर्थः एकतोऽनर्थः सर्वतोऽनर्थः अ
धंतोऽर्थः सर्वतोऽर्थः अर्धतोऽनर्थः सर्वतोऽनर्थः । इति समन्ततो
योगाः ॥
 
संभूयेत्येकीभूय जातविश्वासत्वात्परिगृह्यन्ते वैतके (गृह्णन्त्येवैकां) विटाः ।
प्राप्तापूर्वसमाचारत्वात् । असौ गोष्ठीपरिग्रह उच्यते यो बहुभिरेकस्याः
परिग्रहः । तेनानेकपरिग्रहायाः समन्ततो योग इति तामेवाधिकृत्याह-अ-
नेकपरिग्रहात्तेषामितस्तत इत्यनेनैकेन कदाचिद्वाभ्यां बहुभिर्वा संसृज्यमाना
संपर्कमयन्ती । संघर्षादिति । परस्परसंघर्षात्तेषां संसृज्यमाना प्रत्येकमेकै-
कशोऽर्थान्निर्वर्तयेत् । स्पर्धाकारणमाह सुवसन्तकादिप्विति । तेषु स-
वे॑षु (विटाः सर्वेषु) विटानां कामदौर्बल्यं जायते । मनोरथमित्यभिप्रेतम् ।
वाचयेत् । सा हि निरतोरुषत्वात् (?) शक्ता व्यवस्थापयितुम् । संघर्षज
इति संघर्षजनिते । कार्याणीति लाभान् । तान्याह – एकतोऽर्थ इति ।
यावद्भिः परिगृहीता तेषामन्यतमस्यैकस्य द्वयोरन्यतरस्यैकस्य शेषेण सह
स्पर्धा तस्मादेकतोऽर्थे लक्षयेत् । सर्वत इति सर्वेभ्योऽर्थम् । एकतोऽनर्थ
सर्वतोऽनर्थे यदोमौ स्पर्धेते तदोमयतोऽयै सर्वतोऽर्थमुभयतोऽर्थम् । उभय-
तोऽनर्थः सर्वतोऽनर्थ इति । यदार्षः स्पर्धेते तदार्थतोऽर्थमर्धतोऽनर्थमिति
समन्ततो योगस्त्रिधा भिन्नाः ।
 
-
 
१. 'सकीर्णाश्च'. २. 'यामेका'. ३. 'यो मे मनोरथमिम युवा'. ४. 'रोचयेत्'.
५. 'उपलक्षयेत् .