This page has not been fully proofread.

६ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३५९
 
। शयोऽत्रास्त्येवेत्याह—–— यत्रेति यस्मिन्नुमयतोयोगे । अभिगमन इति प-
रस्य । भविष्यति न वेत्याशङ्का न निश्चयः । सक्तश्चाभिगमने संघर्षात्स्प
र्धया दास्यति न वेति स उभयतोऽर्थसंशयो नाम । यत्रेति यस्मिन्नमयतो-
योगे । व्ययवतीति व्ययं कृत्वापि परस्याभिगमनम् । पूर्व इति पूर्वसंसृष्टः ।
विरुद्धः परस्यैव । क्रोधादिति । खेन व्ययेनाभिगमनमनया क्रियत इति त-
द्वारेण क्रोधान्ममापकारं करिष्यति न वेति संशयः । सक्तश्च प्राक्कयाचि-
दर्थयुक्त्यामर्पितो मम (नो) दत्तं प्रत्यादास्यति न वेति संशयः स उभय-
तोयोगोऽनर्थसंशयो नाम ।
 
बाभ्रवीयास्तु – यंत्राभिगमनेऽर्थोऽनभिगमने च सक्तादर्थः
स उभयतोऽर्थः । यत्राभिगमने निष्फलो व्ययोsनभिगमने च
निष्प्रतीकारोऽनर्थः स उभयतोऽनर्थः । यत्राभिगमने निर्व्ययो
दास्यति नवेति संशयोऽनभिगमने सक्तो दास्यति नवेति स उभ-
यतोऽर्थसंशयः । यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान्
प्राप्स्यते न वेति संशयोऽनभिगमने च क्रोधादनर्थं करिष्यति न
वेति स उभयतोऽनर्थसंशयः ॥
 
-
 
वाअवीयास्त्विति । उभयतोयोगा वक्ष्यन्त इति शेपः । यत्रेत्युभयतो-
योगे । अनभिगमने च सक्तादिति अनभिगतात्सक्तादित्यर्थः । यः सक्तो
वशी सोऽनभिगत एव दास्यति । यथोक्तं प्राक् – 'सतं तु वशिनं नारी
संभाष्यान्यन वा व्रजेत्' इति । पूर्वस्मिन्दर्शनेऽन्यतराभिगमनेऽन्यतरस्सा-
दर्थः । इयं (इह) त्वेकत्वा (ला) भिगमने उभयस्मादर्थः । ततश्च स ए-
वात्र मूलसूत्रार्थः । यत्रेत्युमयतोयोगे । अभिगमन इति परस्य । निष्फलो
व्यय इति अनर्थः । अनभिगमने वा (च) सक्तादित्यनुवर्तते । यः परा-
भिगमनेन सक्तो जातामर्पस्तस्मान्निष्प्रतीकारोऽनयों यद्वित्तप्रत्यादानं स
उभयतोऽनर्थो नाम । यत्रेत्युभयतोयोगे । अभिगमने परस्य । निर्व्यय इति
विना व्ययः । अनभिगमने सक्त इति विनाभिगमनं दास्यति न वेति ।
 
१. 'द्राक्'. २. 'यस्य'. ३. यस्य'. ४. 'प्रत्यादात्यति'. ५. 'प्रयच्छति'.