This page has not been fully proofread.

२६
 
कामसूत्रम् ।
 
२ आदितोऽध्यायः]
 
शल्यं सुखमश्नुत इति । अनुतापाभावात्समग्रो मे पुरुषार्थ इति मनः श्री-
तिमवाप्नोतीत्यर्थः । त्रिवर्गे ह्यसेवमानस्य तावदिहलोके नैहिकं सुखमवाप्त-
मिति विप्रतीसारम्, दुरन्तकामानुबन्धनान्नापि परलोके, न मया मूढेन प्रा-
कृतमवदातं कर्मेति धर्मानुषक्तत्वात् । नास्तिकनिरीहकसुखद्विषस्त्वेकाङ्क्ष-
बिकलत्वात्सशल्यमवाप्नुवन्तीति मन्यते ।
 
'परस्परस्यानुपघातकमन्योन्यानुबद्धम्' इत्युक्तम् तस्यैव संग्रहः श्लोक-
कि स्या॒त्परत्रेयाशङ्का कार्ये यस्मिन्न जायते ।
न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥
त्रिवर्गसाधकं यत्स्याइयोरेकस्य वा पुनः ।
कार्य तदपि कुर्वीत न त्वेकार्य द्विवाधकम् ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
त्रिवर्गप्रतिपत्तिद्वितीयोऽध्यायः ।
 
द्वयेन-
Reg
 

 
किं स्यादिति । उपघातः पूर्वेणोचरस्य, उत्तरेण वा पूर्वस्य । तत्र य-
स्मिन्कार्यार्थोऽपि साधयिष्यते यस्तत्र किं स्यात् । अपायोऽनपायो वे-
त्याशङ्का नास्ति । धर्माबाधनात् । यच्च सुखं नायै हन्ति तस्मिन्नर्थे
सुखे च शिष्टास्त्रिवर्गविदः स्थिताः । अनुष्ठातुम् । पूर्वबाधके तुन स्थिताः ।
यस्तु दानेन धर्मोऽर्थे बाधते ब्रह्मचर्येण च विद्याग्रहणमर्थः कामं तस्मि-
नुत्तरबाधके स्थिता इत्यर्थोक्तम् । 'अपि नाम त्रिवर्गेऽस्मिन्सेवेतोत्तरबा-
धकम् । पूर्वस्य तु प्रधानत्वान्न सेव्यः पूर्वबाधकः ॥ इति । त्रिवर्गसाध-
कमिति । धर्मादीनां यदन्यतमं कार्यमनुष्ठेयमात्मन इतरयोस्तु साधकं
तत्कुर्वीत । अयमुत्तमः पक्षो द्वयनुबन्धेऽन्तर्भूतः । द्वयोर्वैकस्येति । त्रयाणां
यहूयोरात्मन इतरस्य च साधकं तदपि कुर्वीतेति । अयं मध्यमः पक्ष
एकानुबन्धेऽन्तर्भूतः । एतदुभयमपि प्रागुदाहृतम् । यदेकस्यात्मन एव
साधकं तदपि कुर्वीतेति । अयं जघन्यो निरनुबन्धेऽन्तर्भूतः । तद्यथा-प-
१. 'प्रतीतिम्' पा०. २. 'त्रयाणा साधकम्' पा०. ३. 'कार्येऽर्थ.' पा०. ४. अनु.
ष्ठीयमानेन' पा०. ५. 'तथा' पा०.