This page has not been fully proofread.

३५८
 
कामसूत्रम् ।
 
३४ आदितोऽध्याय:]
 
रिति मर्तुमिच्छोः । कामस्यावस्थान्तरप्राप्तत्वात् । मित्रवाक्यादिति । श्रो-
त्रियादीनां मित्रस्याभ्यर्थनावचनात् । आनृशंस्याञ्च करुणायाः । अभिग-
मने धर्मोऽधर्म इति मा भूत्प्राणत्याग इति धर्मनियमत्रंशः दूष्य इत्यधर्मः ।
तदुमयमपि कस्मान्न भवतीति चेत्, न । अन्यतरस्य बलीयस उत्पाद-
नात् । अकृतप्रत्ययादिति अकृतनिश्चयाल्लोकात् । किमयं गुणवान वेति
स्वयमनवेक्ष्यानिश्चित्य केवलं लोकप्रवादागुणवानित्यभिगमनादभिसरणे
किल(म)तः कामो द्वेषो वेति विरुद्धसंकीर्णास्त्रयः ।
 
अविरुद्धमधिकृत्याह-
यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः ।
यंत्र स्वेन व्ययेन निष्फलमभिगमनं सक्ताच्चामर्षिताद्वित्तमत्यादानं
स उभयतोऽनर्थः । यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का स-
कोsपि संघर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः । यत्राभिग-
मने व्ययवति पूर्वो विरुद्धः क्रोधादपंकारं करिष्यति नँ वेति सक्तो
वामर्पितो दत्तं प्रत्यादास्यति न वेति से उभयतोऽनर्थसंशयः । इ-
त्यौद्दालकेरुभयतोयोगाः ॥
 
यत्रेति यस्मिन्नुभयतो लोयोके (योगे) । परस्येत्यपूर्वस्य । उत्तरत्राप्य-
धिकृतं वेदितव्यम् । अभिगमनेऽर्थः परस्मादेव । सक्ताचेत्यनुरक्तात् । अ-
भिगमने । संघर्षत इति स्पर्धमानादर्थः । स मा भूदनेनास्याः संप्रयोग इति
स्पर्धया ददाति । स उभयतोयोग उभयतोऽर्थो नाम । अन्यत्र यस्मिन्
क्रियमाणे कार्यस्योत्पत्तिरुभयतो योग इति भूतसूत्रार्थो योज्यः । यस्मिन्नु -
भयतोयोगे स्वेन व्ययेनाभिगमनम् । परस्येति वर्तते । निष्फलमित्यर्थः ।
सक्ताच्चानुरक्तादभिगमनम् । विभक्तिविपरिणामेन योज्यम् । अमर्षितादिति
कदाचिदर्थयुक्तात् क्रुद्धात् । वित्तप्रत्यादानमिति तेनैव दचं प्रतीपमादी-
यमानम् । अनर्थः अन्ते निष्क्रमणात् । स उमयतोयोग उभयतोऽनर्थो
नाम । उभयतोगम्यस्य भिन्नविषयत्वात् । निरनुबन्धपक्षेऽन्तर्भावः । सं-
१. 'भ्रशदूष्य'. २. 'सहर्पतः'. ३. 'यत्र परस्य खेन'. ४. 'यस्य'. ५. 'यस्य'. ६.
'अनर्थ'. ७. 'नवेतिसंशय:'. ८. 'तत्'. ९. 'अमर्पादिति'.