This page has not been fully proofread.

६ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
वेति संशयः । अनभिगत इति । अभिगन्तुमिच्छन् क्षुद्रत्वात्प्रत्याख्यातः
सहि राजकुले लब्धप्रभावत्वादनथें करिष्यति न वेति संशयः । सक्त
इति । अनुरक्तोऽभिगन्तुमिच्छन् । परित्यक्तो निष्फलत्वात् । पितृलोकं
यायादिति । अवस्थान्तरप्राप्तौ यमलोकं यायादिति संभाव्यते । तत्रेति
परित्यागेऽधर्मः स्यान्न वेति संशयः । रागस्यापि विवक्षायामिति । कामो
न भविष्यतीति न विवक्षितं रागेण पीड्यमानत्वात् । अभिप्रेतोऽपि नास्ति
यदायमाश्रित्य स्यादित्याह–अभिप्रेतमनुपलभ्येति । केवलमेव वर्तमानाया
विद्वेषः स्यान्न वेति संशयः । शुद्धसंशया इति । एकस्यैव भावाभावाभ्यां
संशय्यमानत्वात् ।
 
अथ संकीर्णाः ॥
 
त (अ) थेत्यानन्तर्ये । संकीर्णो (र्णा) निर्दिश्यते (न्ते ) । शुद्धानन्तरं
हि संकीर्णस्योद्दिष्टत्वात् । इदं वा स्यादिदं वेति संकीर्ण इति । स च (वि-
रुद्धा) विरुद्धाभ्याम् ।
 
३५७
 
तत्र पूर्वमधिकृत्याह-
आगन्तोरविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा समुप-
स्थितस्याराधनमर्थोऽनर्थ इति संशयः । श्रोत्रियस्य ब्रह्मचारिणो
दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूपमित्र-
वाक्यादानृशंस्याच्च गमनं धर्मोऽधर्म इति संशयः । लोकादेवाकृत-
'प्रत्ययादगुणो गुणवान्वेत्यनवेक्ष्य गमनं कामो द्वेष इति संशयः । सं-
किरेच परस्परेणेति संकीर्णसंशयाः ॥
 
आगन्तोरिति कुतश्चिदागतस्य गमनेऽविदितशीलत्वादर्थोऽनथों वेति
संशयः । अप्रत्ययस्य वा अतिथितया समुपस्थितत्वादर्थः । वल्लभसंश्रया-
त्प्रभविष्णुत्वाद्वानर्थ इति कारणद्वयस्य निधानात्संशयः । श्रोत्रियस्येति
गृहस्थस्यापि क्रियावतः । ब्रह्मचारिण इति प्रथमाश्रमस्य । व्रतिन इति
कियन्तं कालं गृहीतपराकादित्रतस्य । लिङ्गिन इति भौतादेः । मुमूपों-
१. 'तथा'. २. 'संकीर्ण:'. ३. 'अत्र प्रत्ययस्य'.
 
.