2023-02-19 13:59:42 by ambuda-bot
This page has not been fully proofread.
३५६
कामसूत्रम् ।
३४ आदितोऽध्यायः]
एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत् । तत्र ब्राह्मणस्य गृहस्थस्या-
नुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारणं गार्हस्थ्यधर्मप्रवर्तनं च
धर्मो धर्मानुबन्धः । काममात्रं च तद्धर्मो निरनुबन्धः । तस्यैवाकृतस्त्रानमो-
जनस्य गमनं कामो द्वेषानुबन्ध इति । अत्रानुबन्धाः षट् विजातीयविरु-
द्धाभ्यामनुबन्धा द्वादश ।
परस्परेण च युक्त्या संकिरेदित्यनुवन्धाः ॥
युक्त्येति विरुद्धं त्यक्त्वा शेषाणां विजातीयानामन्ययोगादित्यर्थः । त-
त्रार्थो धर्मानर्थकामद्वेषैः प्रत्येकमनुबन्ध (द्ध)श्चतुर्विधः । तथानर्थोऽपि
धर्मार्थकामद्वेषैः प्रत्येकमनुबन्ध (द्ध)श्चतुर्विधः । तथा अधर्मोऽपि कामानर्थ -
धर्मैः प्रत्येकमनुवन्धः (द्ध) श्चतुर्विधः । तथा द्वेषोऽपि । इति चतुर्विंशति-
संकीर्णानुबन्धाः ।
शुद्धसंशयमधिकृत्याह-
4
परितोपितोऽपि दास्यति न वेसर्थसंशयः । निष्पीडितार्थमफ-
लमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्यान्न वेति धर्मसंशयः ।
अभिप्रेतमुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा कामः स्यान्न वेति
कामसंशयः । प्रभाववान् क्षुद्रोऽनभिमतोऽनयें करिष्यति न वेत्य-
नर्थसंशयः । अत्यन्तनिष्फल: सक्तः परित्यक्तः पितृलोकं याया'
तत्राधर्मः स्यान्नवेत्यधर्मसंशयः । रागस्यापि विवक्षायामंभिप्रेत-
मनुपलभ्य विरॉग: स्यान्न वेति द्वेषसंशयः । इति शुद्धसंशयाः ॥
यदि तदाले न ददाति सुरतोपचारेण परितोषितोऽपि दास्यति ।
त्राज्ञानशीलत्वाद्द्द्यान्न वेत्यर्थसंशयः । उत्सृजन्त्या इति । कामुकेभ्योऽङ्गानि
दत्त्वार्थार्जनं चेत्स्याद्धर्मः । अङ्गार्पणं वेश्याया धर्मः । तथा हि — 'यथा
खवृत्तिधर्मः' इत्याचार्याः । तत्रार्थमलममानाया निप्पीडितार्थस्योत्सर्जन-
मपि कि धर्मो न वेति संशयः । अभिप्रेतमपि रुचिरं नायकं परिचारकमा-
त्मीयं वा क्षुद्रं निकृष्टं गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाच्च कामः स्यान्न
१. 'वेशानुवन्ध'. २. 'दद्यात्'. ३. 'अनुपलभ्य'. ४. 'अभिप्रेतायें.
५. 'द्वेप:'.