This page has not been fully proofread.

६ अध्याय:]
 
६ वैशिकमधिकरणम् ।
 
सक्तादिति यः सतो निःसारत्वादन्यदीयमर्थमपहृत्य प्रयच्छति त-
स्यार्थस्य परिग्रहे आयतिच्छेदनं प्रभावहानिर्दस्युना सह तिष्ठतीति । अ-
र्थस्येति पूर्वोपात्तस्य । निष्क्रमणं चात्र द्रव्यमिति (?) । तावक्रेन(?) गृह्य-
माणत्वात् । लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि । नीचस्य वा जातिन्यूनस्य ।
गमनमायतिघ्नमिति प्रभावं हन्ति । अत्रार्थोऽनर्यानुबन्धः । तदात्वे लाभस्या-
यतिच्छेदानर्थानुवन्धित्वात् । अयं विरुद्धानुबन्धः ।
 
( स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं
निष्फलमपि व्यसनमतीकारार्य महतश्चार्यघ्नस्य निमित्तस्य प्रशमन-
मायतिजननं वा सोऽनर्थोऽर्थानुवन्धः ॥)
 
कैदर्यस्य सुभगमानिनः कृतघ्नस्य वातिसंधानशीलस्य स्वैरपिव्य-
यैस्तैयाराधनमन्ते निष्फलं सोऽनर्यो निरनुवन्धः ॥
 
कदर्यस्येति आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्संचिनोति तस्य सु-
भगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स न प्रयच्छति । यः
सुदुर्भगः सुभगमानी स केवलार्थो गम्य उक्तः । कृतघ्नस्य वेति । वाशब्दः
पूर्वापेक्षया सर्वत्र योज्यः । अतिसंघानशीलस्य छलेन संधानपरस्य । त
थाराधनमिति यथा स्वैरपि व्ययैरभिगमनम् । निष्फलं यथानुरञ्जनमप्यन्ते
निष्फलम् । सोऽनर्थ इति यः कृतो व्ययो निरनुबन्धः ।
 
कदर्यादेविशेषमाह-
तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते नि-
ष्फलं निष्कासनं च दोषकरं सोऽनर्थोऽनर्थानुवन्धः ॥
 
क्रौर्यप्रभावाधिकस्येति दोषत्रयमत्राधिकम् । तथैवाराधनमिति यथा
खैर्व्ययैरभिगमनं निष्फलम् । कदर्यादीनामदातृत्वात् । निष्कासनमददता
दोषकरम् । ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुप्यशरीरप्रघातादीन-
नर्थान्कुर्युः । इत्यनर्थोऽनर्थानुबन्धः । अयं सजातीयानुवन्धः ।
 
एवं धर्मकामयोरप्यनुवन्धान्योजयेत्
 

 
१. केषुचिन्मूलपुस्तकेष्वय पाठोऽत्र वर्तते. २. 'तस्यैव कदर्यस्य नुभवानिमग
निन:'.
'तथैवाराधनं'. ४. 'प्रताप'.