2023-02-19 13:59:42 by ambuda-bot
This page has not been fully proofread.
३५४
कामसूत्रम् । ३४ आदितोऽध्यायः]
संकीर्यमाणत्वात् । एकस्मिन्कार्य इति । अर्थादिसाधने क्रियमाणे द्वय-
स्पेत्यर्यादीनां घण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्प-
तिरुभयतो योग इत्युभाभ्यां संबन्धः । समन्तादिति । एकस्मिन् क्रियमाणे
बहुभ्योऽर्थादीनामुत्पत्तिः समन्ततो योगः । अस्य योगद्वयस्य निरनुबन्धपक्ष
एवान्तर्भावः । ताननुबन्धादीनुदाहरणादुदाहरिष्यामः । स्पष्टोऽर्थः ।
ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः खरूपतोऽपरिज्ञाने कथमुदाहरण -
मित्याह-
विचारितरूपोऽर्थत्रिवर्गः । तद्विपरीत एवानर्यत्रिवर्गः ॥
विचारितरूप इति त्रिवर्गप्रतिपत्तौ निरूपितखभाव इत्यर्थः । तद्विरुद्ध-
त्वादनर्थोऽपि विचारितरूप इत्याह - तद्विपरीत इति ।
तत्रार्थानर्थयोस्निवर्गयोरर्थावेत्यवधि (रर्थादीनधि) कृत्याह-
यस्योत्तमस्योभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमौयतिरा-
गमः प्रार्थनीयत्वं चान्येषां स्यात्सोऽर्थोऽर्थानुवन्धः ॥
उत्तमादिभेदान्त्रिविधो नायको व्याख्यातः । तत्र यः समस्तगुणस्तस्यो-
त्तमगुणस्याभिगमने । प्रत्यक्षतोऽर्थलाभ इति तत एव प्रत्यक्षात्तदानीमर्थ-
लाभः । ग्रहणीयत्वमिति लोकमाचत्वमुपादेयत्वम् । आयतिः प्रभावः ।
आगमस्तत्कालीयानां प्रार्थनीयत्वं गम्यादीनाम् । सोऽर्थ इति योऽसौ त-
दात्वे लाभः । अर्थानुबन्ध इति ग्रहणीयत्वादिरर्थैरनुबन्धो यस्य । अयं
सजातीयानुवन्धः ।
लाभमात्रे कस्यचिदन्यस्य गमनं सोऽर्थो निरनुबन्धः ॥
लाममात्र इति तदात्वे यो लामस्तन्मात्रमेव निमित्तम् । कस्यचिदिति
लोके यो गुणैर्दोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थो निरनुबन्धः ।
(ग्रहणीत्वमिति) लोकग्राह्यत्वाद्यभावात् ।
-
अन्यार्थपरिग्रहे सक्तादायतिच्छेर्दैनमर्थस्य निष्क्रमणं लोकविद्वि-
टस्य वा नीचस्य गमनमाय तिघ्नमर्थोऽनर्यानुवन्धः ॥
२३. 'आयते'
Y SecureT ien?