2023-02-19 13:59:42 by ambuda-bot
This page has not been fully proofread.
N
६ अध्याय:]
६ वैशिकमधिकरणम् ।
३१३
घातः केशानां छेदनं पातन मङ्गवैकल्यापत्तिः । तस्मात्तानादित एव
परिजिहीपेंदर्यभूयिष्ठांचोपेक्षेत ।
तेपां बुद्धिदौर्बल्यादीनाम्, अथवा ए (ते) षामित्यनर्थानां सानुवन्धानां
तत्संशयानां च फलमिति परिणामः । अनर्थवेदनविपरिणामरूपेण संशय्य-
मानत्वादनर्थसंशयानामपि फलम् । व्ययस्येति गम्याभिगमनाय कृतस्य ।
अनायतिः प्रभावहानिः । आगमिष्यत इत्यधिकृते व्यये लप्स्यमानस्य नि-
वर्तनमिति बोद्धव्यम् । आप्तस्येति प्राप्तस्येत्यर्थः । निष्क्रमणमन्येत गृह्यमा-
णत्वात् । पारुप्यस्येति द्विरुक्तस्य (१) । गम्यता परिचेयंता । शरीरस्य प्र-
घातः प्राणवायोर्वियोगः । केशाना छेदनं लवनम् । पातनं वन्धताडनम् ।
अङ्गवैकल्यं कर्णनासाविच्छेदः । तान्बुद्धिदौर्बल्यादीनादित एव परिहर्तुमि-
च्छेत् । यावदर्थहेतूनुपायान्प्रयुङ्के । अन्यथा ह्यर्थ बाधित्वानर्थोऽपि स्यात् ।
कारणानां संनिहितत्वात् । अर्थभूयिष्ठांश्चेति । अर्थबहुलाननर्थहेतूनुपेक्षेत ।
तत्र अर्थहेतूनामेवोपायानां बाहुल्यात् ।
(
इदानीं निरनुबन्धान्विचारयितुमाह -
अर्यो धर्मः काम इत्यर्यत्रिवर्गः । अनर्थोऽधर्मो द्वेष इत्यनयंत्रि-
वर्गः । तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुवन्धः । संदिग्धायां
तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः । इदं वा स्यादिदं वेति
संकीर्णः । एकस्मिन् क्रियमाणे कार्ये कार्यद्वयस्योत्पत्तिरुभयतो-
योगः । समन्तादुत्पत्तिः समन्ततोयोग इति तानुदाहरिष्यामः ॥
अनर्थ इति । अर्थत्रिवर्गो ह्यर्थ इति कृत्वा तद्विरुद्धोऽनर्थत्रिवर्गः । त-
तश्चार्था(न)र्थानुबन्धसंशयविचारा इत्यसिन्सूत्रे धर्माधर्मयोः कामद्वेषयोर-
पि संग्रहः सिद्धः । अनेन निरनुवन्धपक्ष उक्तो वेदितव्यः । तेप्वित्यर्थादिषु
षट्सु साध्यमानेषु अन्यस्यापातिनः केवलं साध्यमानस्य (अन्यस्यापीति) स-
जातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्येति । (अ) संप्राप्तौ संदिग्धायां
स्याद्वा न वेति यो विकल्पः स शुद्धसंशयः । द्वयोरन्यतरोत्पत्त्या विकल्पस्य
१. 'परुषस्य'. २. 'वध'. ३. 'तेषु चाचर्य'.
का० ४५