This page has not been fully proofread.

कामसूत्रम् ।
 
षष्ठोऽध्यायः ।
 
शास्त्रकार एव प्रकरणसंबन्धमाह -
 
-
 
३४ आदितोऽध्यायः]
 
4
 
अर्थानाचर्यमाणाननथ अप्यनुद्भवन्त्यनुबन्धाः संशयाश्च ॥
अर्थानिति लामविशेषाननन्तरोक्तान् आचर्यमाणान्साध्यमानान् । अपरि- :
ग्रहाया वेश्याया इत्यर्थः । अनर्था विरुद्धाः । अनूद्भवन्त्वि (न्ती ) ति । 'अ-
नुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वे अर्थानिति द्वितीया । अर्थान्साध्यमानां-
लक्ष्यीकृत्यानर्था अपि स्वहेतुभ्य उत्पद्यन्ते । तत्र यदा अर्था एवोत्पद्यन्ते
तदा निरनुबन्धार्थः पक्षः । यदायै बाधित्वानर्थास्तदा निरनुबन्धानर्थः
पक्षः । अनुचन्धा इत्यर्थाद्याः । (अ) संशयाश्च एतयोरेवोत्पद्यन्ते । तस्माते-
नोपादानार्थं विवादो युक्तः । इत्यर्थादनर्थानुबन्धसंशयविचारा उत्पद्यन्ते ।
तत्रार्थास्तदनुवन्धाश्चोपादेया एव । तत्संशयाश्च । केषांचित्प्रवृत्तेः । येऽन-
र्यास्तद्नुवन्धास्तत्संशयाश्च तेपामनुपादेयत्वात् ।
 
उत्पत्तिकारणान्याह-
ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदैम्भादत्यार्जवादति-
विश्वासादतिक्रोधात्प्रमादात्साहसाह्रैवयोगाच्च स्युः ॥
 
त इत्यनर्थादयः । बुद्धिदौर्बल्यादित्यूहानूहतत्त्वाभिनिवेशाविवेकाभ्यां
बुद्धिदौर्बल्यम् । रागः सक्तिः । अभिमानोऽहंकारः । दम्भश्छद्म । आर्ज-
वमृजुता । विश्वासो विस्रम्भः । क्रोधः कोपः । एते कार्यवशायुक्तितः प्र-
युज्यमाना नैव दोषाय आधिक्येन तु दोषायैवेत्यतिशब्देनाह । प्रमादो
योऽन्यत्र व्यासङ्गः । साहसमविसृष्यकारित्वम् । एतन्नवधा मानुषम् । दै-
वयोगादिति । दैवमशुभं कर्म शुभं च । (शुभसंज्ञं च) तेन दैवयोगादित्यर्थः ।
 
तेषां फलं कृतस्य व्ययस्य निष्फलत्वमनायतिरागमिष्यतोऽर्थस्य
निवर्तनमाप्तस्य निष्क्रमणं पारुष्यस्य माप्तिर्गम्यता शरीरस्य मै
 
१. 'अर्था आचर्यमाणा अनर्थानप्यनुवघ्नन्ति । तेषामनुवन्धास्तत्संशयाच'. २. 'द-
म्भादतिहर्षादतिस्तम्मादयार्जवादतिविश्वासादतिकोघादतिप्रमादादतिमदादतिसाहसाद्दै-
वयोगाच्च यदृच्छचा स्युः'. ३. 'प्रतीघात.'.