This page has not been fully proofread.

५ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३५१
 
भवन्ति चात्र श्लोका:-
कृच्छ्राषिगतवित्तांश्च राजवल्लभनिष्ठुरान् ।
आयत्यां च तदात्वे च दूरादेव विर्वेर्जयेत् ॥
अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा ।
प्रेयत्नेनापि तान्हा सापदेशर्मुपक्रमेत् ॥
कृच्छ्राधिगतवित्तांश्चेति क्लेशेनार्जितवित्तान् । राजवल्लभनिष्ठुरानिति ये
राष्ट्रा निष्ठुराः क्रूरा येषां नाकरणीयमपि कुर्यादित्यर्थः (१) । प्रायशस्ते-
भ्योऽनर्थसंभवात् । तेषां तर्हि उपादानमित्यर्थः । अनर्थ इति यांस्त्यक्त्वा-
न्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानुभयप्रयोजनत्वात् प्रयत्नेनापि तान्गृह्ये-
त्यभिगम्य । सापदेशमुपक्रमेदिति यत्किचिन्मिश्रीकृत्या(?)
मभिगच्छन्त-
मभिगच्छेदित्यर्थः । वृत्ताद्यभावादात्मनेपदं न भवति ।
येष्वर्थ एव प्रयोजनं तानाह-
प्रसन्ना ये प्रयच्छन्ति स्वल्पेऽप्यगणितं वसु ।
स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके पष्ठेऽधिकरणे
लाभविशेषाः पञ्चमोऽध्यायः ।
 
महोत्साहानिति महानुत्साहो येषाम् । महत्त्वं चोत्साहस्य शौर्यादि-
मिः । ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतं द्रव्यं प्रयच्छन्ति तस्मात्ता-
न्गच्छेत् । स्वैरपि व्ययैरुपचारलक्षणैः । इति लाभविशेषाः सप्तपञ्चाशं
प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जगमङ्गलाभिषानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां वैशिके षष्ठेऽधिकरणे
लाभविशेषाः पञ्चमोऽध्यायः ।
 
१. ' भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति. २. 'बालभ्यवित्तवान्.
३. 'प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत्' इति पुस्तकान्तरे उत्तरार्धम्. ४. 'विसर्ज-
येत्'. ५. 'प्रयत्नेनैव तान्सर्वांन्सापदेशमनुक्रमेत् ६. 'उपक्रम.',