This page has not been fully proofread.

३१०
 
कामसूत्रम् । ३३ आदितोऽध्यायः]
 
यदा आयतिर्महती स्यादनर्थश्च न महान्प्रतिकर्तव्यस्तदा नैव प्रतिगृ-
ह्णीयात् ।
 
त्यक्ष्याम्येन॑म॒न्यतः प्रतिसंधास्यामि, गेमिष्यति दारैयक्ष्यते
नाशयिष्यत्यनर्थान्, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी
पिता वा, स्थानभ्रंशो वास्य भविष्यति चलचित्तश्चेति मन्यमाना
तदौत्वे तस्माल्लाभमिच्छेत् ॥
 
त्यक्ष्याम्येनं त्यक्षा(क्त्वा) त्वेतत्तो लाभं गृहीत्वान्यतः प्रतिसंघास्यामि ।
तस्याधिकत्वात् । गमिष्यति दारैर्योक्ष्यते गतः कृतदारपरिग्रहो वा कथं
दास्यति । नाशयिष्यत्यनर्थान्स्वकीयान् । तस्य परवशप्रायत्वात् । अङ्क-
शभूत इति दमयिता । उत्तराध्यक्ष उपरिकः । अस्येति गम्यस्येति क
र्मणि आगमिष्यति तदायमस्वतन्त्रः कथं दास्यतीति । स्वामी पिता वाङ्क-
शभूतः । स्थानअंशो वेति यस्मिन्स्थानेऽस्याधिपत्यं तस्माद्विच्युतिः । च-
लचितो वा प्रतिज्ञायापि न दास्यति । तदात्व इति तदानीम् ।
 
प्रतिज्ञातमीश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा मा-
प्स्यति वृत्तिकालोऽस्य वा आसन्नः वाहनमस्यागमिष्यति स्थलपत्रं
वा सस्यमस्य पक्ष्यते कृतमस्मिन्न नश्यति नित्यमविसंवादको वे-
त्यौयत्यामिच्छेत् । पॅरिग्रहकल्पं वाचरेत् ॥
 
प्रतिग्रहं लप्स्यत इति स क्लेशेनोपलब्धार्थो दास्यति । अधिकरणम-
क्षपटलादिकं स्थानं यत्राधिपत्यं करिष्यति । वृत्तिकालो वेति सेवकत्वाज्जी-
वनकालोऽस्यासन्नः । राजकुले विलम्बस्य वर्तमानत्वात् । वाहनं यानपा-
त्रमागमिष्यति । वाणिज्यधर्मस्थितत्वात् । स्थलपत्रमित्थंभूतम् (?) । स्व-
राष्ट्रादिसस्यमस्य पक्ष्यत इति । कृषिवृत्तित्वात् । ततश्च पक्कं सस्यं दा-
स्यति । कृतमस्मिन्न नश्यति अभिगम्यत्वं न निष्फलम् । कृतज्ञत्वात् ।
नित्यमविसंवादको वा प्रतिज्ञायावश्यं दास्यति । आयत्यामित्यागमनकाले ।
परिग्रहकल्पं वा चरेत् तत्रार्थस्य लप्स्यमानत्वात् ।
 
१. 'अन्येन'. २. 'गमिष्यत्ययं खदारैः'. ३. 'तदात्वेन'. ४. 'लप्स्यति'. ५. 'स्था-
लपनं'. ६. 'आयतिमिच्छेत्', 'अभिगच्छेत् ७. 'परित्रहत्वं वास्याचरेत्.