This page has not been fully proofread.

५ अध्याय:]
 
६ वैशिकमधिकरणम् ।
 
३४९
 
(त) इतरस्य वा । ततश्च नेय वृत्तिरियत्ताप्रधानार्थद्वारेण या निर्दिष्टा क-
दाचित्तन्यूनाघिका वा संभवति ।
 
-
 
एवं च कार्यनिरपेक्षया कश्चित्खल्पोऽपि लामो गृह्यते कश्चिन्नैव क-
त्तिदात्वे गृह्यते कश्चिदायत्यां यदाह -
 
गम्यमन्यतो निवारयितुकामा सक्तमन्यस्यामपहर्तुकामा वा
अन्यां वा लाभतो वि॑ियुयुक्षमाणागम्यसंसर्गादात्मनः स्थानं वृद्धि -
मायतिमभिगम्यतां च मन्यमाना अनर्थप्रतीकारे वा साहाय्यमेनं
कारयितुकामा सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारमकृत-
मिव पश्यन्ती केवलमीत्यर्थिनी वा कल्याणर्बुद्धेरल्पमपि लाभं प्र-
तिगृह्णीयात् ॥
 
अन्यत इति अन्यस्या नायिकातो निवारयितुकामा मान्यत्र यासीदिति ।
अपहर्तुकामा मद्वेषिण्यां सक्तं त्यक्ष्यामीति । लाभत इति अन्यस्या नायि-
कातो गम्यसंवन्धिनो लाभात् । वियुयुक्षमाणा वियोक्तमिच्छन्ती । अंग-
म्यसंसर्गादिति येन गम्येन सह (न) संसर्गस्तस्मात् । स्थानं जनसंसदि वि-
शिष्टदेशावस्थानं मन्यमाना । वृद्धिं प्रकृष्टा (कर्षा ) ख्यां लाभातिशयं आ-
यति प्रभावं अभिगम्यतामन्येषां नायकानामभिगमनीयत्वं अनर्थप्रतीकारं
वेति अनर्थ प्रतिकर्तुं सहायमेनं कर्तुकामा । सक्तस्य वेति यस्तस्यां
सक्तः । अन्यो वर्तमानः । तेन यः पूर्वमुपकारः कृतस्तं स्वल्पत्वादकृत-
मिव पश्यन्ति । तस्यातीतस्य व्यलीकार्थिनी अपराधं कर्तुकामा अल्पमपि
गृह्णीयात् येनायमपराधं मन्ये (धमध्ये ?)ऽतिसक्तस्त्यजति । केवलप्रीत्यर्थेनी
वेति प्रीत्यैव केवलयार्थिनी नायैः । कल्याणवुद्धेरित्यविसंवादकात् ।
 
अय (इय) मनर्थप्रतीकारिकेत्युक्तम् । अत्र विशेषमाह -
आयत्यर्थिनी तु तैमाश्रित्य चानर्थं प्रतिचिकीर्पन्ती नैव प्र-
तिगृह्णीयात् ॥
 
१. 'इयता'. २. 'कृत्वा कार्यनिरापेक्षया'. ३. 'गृहागते'. ४. 'दातृत्वे'. ५. 'वि-
मोक्ष्यमाणा'. ६. 'आय'. ७. 'प्रत्यर्थिनी'. ८. 'वुद्धिः'. ९. 'अर्धे गृहीयात् .
१०. 'अन्यससर्गादिति'. ११. 'स'. १२. 'तमाश्रितानर्थे'.