This page has not been fully proofread.

+
 
२ अध्यायः]
 

 
१ साधारणमधिकरणम् ।
 
यद्येवं तर्हि दोषप्रसङ्ग इत्यत आह -
 

 
बोद्धव्यं तु दोषेष्विव । नहि भिक्षुकाः सन्तीति स्थाल्यो ना-
घिश्रीयन्ते । नहि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः ॥
बोद्धव्यमिति । अजीर्णादिदोपेप्विव बोद्धव्यम् । प्रतिविधानमिति
शेषः । इदमाह-यत्र वचन दोषप्राप्तिरवश्यं सेव्यश्च कामस्तं दोपप्र-
तिविधानेन सेवेतेति । अयं च न्यायो लोकेप्वप्यस्तीति दर्शयति
त्यादिना । तथा चोक्तम् – 'तृणानामिव हि व्यर्थे नृणां जन्म सुखद्वि-
क पाम् । दोषास्तु परिहर्तव्या इत्याचार्यैः स्थिरीकृतम् ॥
अनुष्ठानलक्षणायाः प्रतिपत्तेः फलमाह --
भवन्ति चात्र श्लोकाः-
नही
 
i
 
एवमर्थ च कामं च धर्म चोपाचरन्नरः ।
 
अत्र संप्रतिपत्तिमाह --
 
शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः । फळभूताश्च घ
मर्थयोः ॥
 
आहारसघर्माण इत्याहारतुल्याः । यथाहारोऽजीर्णादिदोपं जनयन्नपि
प्रतिदिने शरीरस्थितये सेव्यते तथा कामोऽपि । अन्यथा रागोद्रेकादु-
न्मादादिदोषेण न शरीरस्थितिरिति । फलभूताश्च धर्मार्थयोरिति । सुखार्थे
धर्मार्थयोः सेवा । तदसेवायां तौ वन्ध्यभूतौ केवलमायासफलौ स्याताम् ।
तथा चोक्तम् –'धर्ममूलः स्मृतः खर्गस्तत्रापि परमाः स्त्रियः । गृहस्थ-
धर्मो दुर्वारो नराणां धर्मयत्नजः ॥ हिताश्चापत्यसंतानेः स्त्रियस्त्विह परत्र
च। परं संप्रत्ययो भोगप्रकर्षार्थाय वै स्त्रियः ॥
 
२५
 
-
 
का० ४
 
इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते ॥
एवमिति । यथोक्तेन न्यायेन प्रतिष्ठापिताचरणमर्थं प्रागाचरणतः ।
ततोऽघिगतार्थः कामं धर्मं च । इहामुत्र चेति । इहलोके परलोके न निः-

 
१. 'तत्र' पा०. २. 'शरीरस्य स्थितये' पा०. ३. 'भोगः' पा०. ४. 'तर्हि' इति
पुस्तकान्तरे नास्ति ५. 'शेषास्तु' पा०. ६. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे
नास्ति.