This page has not been fully proofread.

३४८
 
कामसूत्रम् ।
 
३३ आदितोऽध्याय ]
 
प्रधानत्वात् कलास्तु न सन्ति । तत्र रूपस्य गुणानां पदार्थानां च मध्य-
माघमाः । अत्र यः प्रधानार्थः स गणिकानामस्त्येव ।
 
नियं शुक्लमाच्छादनमपक्षुधमन्नपानं नित्यं सौगन्धिकेन ताम्बू-
लेन च योगः सहिरण्यभागमलंकरणमिति कुम्भदासीनां ला-
भातिशयः ॥
 
आच्छादनमिति परिघानीयं प्रावरणीयं च सदैव शुक्लम् । अपक्षुष-
मिति अकदर्थितत्वात्सुषमैपनयति । सौगन्धिकेन सुगन्धिसमूहेन चतुःसम -
कादिना ताम्बूलेन च नित्यं योगः । एतत्सर्वै गणिकानां रूपाजीवानां चा-
स्त्येव । विशेषमाह—सहिरण्यभागमिति । सुवर्णलेशेन युक्तमित्यर्थः ।
अयं प्रधानार्थः । तद्व्ययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते । अयं च
प्रकृष्टो लाभातिशयः । कुम्भदासीनामित्युत्तमानाम् । कुम्भग्रहणं च क-
र्मोपलक्षणार्थम् । कर्मकरीणामित्यर्थः । आसां चोत्तममध्यमाधमकर्मापेक्षयैव
तथाविधत्वं द्रष्टव्यम् ।
 
एतेन प्रदेशेन मध्यमाधमानामपि लोभातिशयान्सर्वासामेव
योजयेदित्याचार्याः ॥
 
प्रदेशेनेति । प्रदेशेनेत्युत्तमानां लामातिशयमार्गेण । मध्यमाघमानाम-
पीति गणिकारूपाजीवाकुम्भदासीनाम् । लाभातिशयानिति प्रकृष्टापेक्षं
मध्यमाघमान्योजयेत् । तथा चोक्तम् – 'यद्वेश्याखेर्जितं द्रव्यं प्रधानार्थस्य
साधकम् । अवस्थानं हि वेश्यानां स लाम उत्तमो मतः ॥' इति ।
 
देशकालविभवसामर्थ्यानुरागलोकमवृत्तिवशार्दनियतलाभादि-
यमवृत्तिरिति वात्स्यायनः ॥
 
इयमवृत्तीति । देशस्य सुसंपन्नस्य । (कालस्य) सुभिक्षस्य दुर्भिक्षस्य
वा । विभवस्यात्मीयस्य महतोऽल्पस्य वा। सामर्थ्यस्य विभवधनशक्तेर्महत्या-
१. 'लेश'. २. 'उपनयति'. ३. 'ताम्वूलादिना च'. ४. 'लाभान्योजयेत्'. ५. 'स्वा-
जिंतं'. ६. 'अवस्था नहि'. ७. 'कालविभागसामर्थ्यात्तु रूपरागलोक . ८. 'अनियता-
लाभाना नियता प्रवृत्तिरिति'. ९. 'वैशस्य सप्रसन्नस्य'.