This page has not been fully proofread.

५ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३४७
 
एवं द्विविधं रदन्यर्थेन (?) विशेषितेन यदुपचितं धनं स प्रकृष्टो नाम
लाभातिशयः । प्रधानार्थस्य साधनात् । अतस्तद्धारणतया यत्नं दर्शयन्नाह -
देवकुलतंडागारामाणां करणम्, स्थलीनामग्निचैत्यानां निवन्ध-
नम्, गोसहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानम्, देवतानां पूँ-
जोपहारप्रवर्तनम्, तेंव्ययसहिष्णोर्वा घनस्य पैरिग्रहणमित्युत्तमग-
णिकानां लाभातिशयः ॥
 
-
 
विविधा वेश्या — गणिका रूपाजीवा कुम्भदासी च । ताः प्रत्येकमुत्त-
ममध्यमाघममेदात्रिविधाः । तडागं पुष्करिणी । स्थळीनामिति । निम्नेषु
प्रदेशेषु लोकागमनाथै सेतूनां निवन्धनम् । अभिचैत्यानामिति । स्थानाद्व-
हिर्मृद्भिर्गेहानि कृत्वा सर्वे रसगन्धव्रीहिरत्नेषु प्रदेपुरापूर्यया (१) अनये संस-
ज्यन्ते । पात्रान्तरितमिति । वेश्याद्रव्यस्याप्रतिग्राह्यत्वादन्यहस्तेन दानम् ।
देवतापूजनानां प्रवर्तनं घटानिबन्धने । उपहाराणां भक्ष्यादीनाम् । तस्ये-
यत्तां दर्शयन्नाह – ( देवकुलतडागारामाणां करणं स्थली देवतां समुद्दिश्य
सर्वमेतत्प्रधानोऽर्थः ।) तैययसहिष्णोरिति । तसिन्धानार्थसाध्ये यव्ययं
सहते । धनस्य परिग्रहणभयं ( १ ) अयं प्रकृष्टो रागाति (लाभाति) शयः ।
उत्तमगणिकानामिति । रूपादिभिर्नायिकागुणकलादिभिरन्विता उत्तमग-
णिकाः । गुणानां च पादार्धाभ्यां मध्यमाघमाः ।
 
सार्वाङ्गिकोऽलंकारयोगो गृहस्योदारस्य करणम् । महार्हेर्भाण्डैः
परिचारकैश्च गृहपरिच्छदस्योज्ज्वलतेति रूपाजीवानां लाभातिशयः ॥
 
सार्वाङ्गिक इति सर्वेष्वङ्गेषु यो भवति । उदारस्येति संस्थानतः संके-
ततश्चेति । महार्हैरिति लोहताम्रराजतैः । परिचारकैरिति यथास्वं कर्मणा
परिचरन्ति ये । गृहपरिच्छदस्येति गृहसंविधानकस्योज्ज्वलतेत्ययं प्रघा-
नार्थः । तद्व्ययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते । अयं प्रकृष्टो लाभाति-
शयः । रूपाजीवानामित्युत्तमानाम् । सत्स्वपि गुणेषु रूपाजीवायां रूपस्य
 
१. 'तडागानामारामाणां'. २. 'चैत्यकाना च वन्धनम्'. ३. 'पूजाभ्युदय', 'पूजोप-
हाराभ्युदय'. ४. 'तद्वै सहिष्णो:'. ५. 'प्रतिग्रहणम् ६. 'तद्वै सहिष्णो.'.