This page has not been fully proofread.

३३ आदितोऽध्यायः ]
 
तत्राप्यतिपाततो विशेषः ॥
 
अतिपातत इति यदा तदानीमुपेक्षितोऽर्थो (ऽति) पतति च दास्यत्ये-
वेति विशेषः ।
 
मित्रं कलुपितं स्यादिति चेदाह -
 
तत्र कार्यसंदर्शनेन मित्रमनुनीय श्वोभूते वैचनमस्त्विति त
तोऽतिपातिनमर्यं प्रतिगृह्णीयात् ॥
 
कार्यसंदर्शनेनेति जनानां कार्य तत्तवापि कार्यं न चेदं महदुपस्थितम-
पि(ति)पतति । त्वद्वचनं च श्वः कर्तास्मीत्यनुनयपूर्वमुक्त्वा ।
अर्थागमानर्थप्रतीघातयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥
अर्थागमे विशेषः प्रत्यक्ष इति दृश्यमानत्वात् ।
 
३४६
 
कामसूत्रम् ।
 
अर्थः परिमितावच्छेदः, अनर्थः पुनः सकृत्मसृतो न ज्ञायते
कावतिष्ठत इति वात्स्यायनः ॥
 
अर्थ इति । अस्यावच्छेद इयत्ता । सा परिमिता यस्येत्यर्थस्थानतिश -
यत्वात् । सकृत्प्रसृत इति । अखण्डितप्रसरत्वादेकवारप्रसृतो न ज्ञायते
क्वावतिष्ठते किं मूलघाते सर्वघाते वेति । अत्र मधुविन्दूपाख्यानमुदाहरणम् ।
तत्रापि गुरुलाघवकृतो विशेषः ॥
 
गुरुलाघवकृत इति लघोरनर्थात्पूर्वाद्गुरुर (न) र्थो विशेष्यते लघुश्चेद्गुरुर-
नर्थ इति ।
 
एतेनार्थसंशयादनर्थप्रतीकारे विशेषो व्याख्यातः ॥
 
अर्थसंशयादर्थः स्यान्न वेति संशयः अन्यस्मादनर्थप्रतीकारः तदार्थसंशये
विशेषः प्रत्यक्षः । तत्र संशयितेऽपि लोकस्य प्रवर्तनात् । परिमितावच्छे-
दोऽर्थोऽनर्थः पुनः सकृत्प्रसृतो न ज्ञायते कावतिष्ठत इति । अत्रैव वि-
शेषः । न लघोरनर्थात्प्रतिकर्तव्याद्गुरोर (राव) थें संशयिते विशेष इति
 
व्याख्यातः ।
 
१. 'पातितः'. २, 'दावस्य एव विशेष : '. ३. 'कृतं न वचन ततः'.