This page has not been fully proofread.

५ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३४५
 
विशेषः । कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्षो द्रव्यदर्शनात् । न तु
कृतज्ञे । तस्यात्यागित्वात् ।
 
चिरमाराधितोऽपि त्यागी व्यलीकमेकमुपलभ्य प्रतिगणिकया
वो मिथ्यादूपितः श्रममतीतं नापेक्षते । प्रायेण हि तेजस्विन ऋज-
बोsनौeताच सागिनो भवन्ति । कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा
विरज्यते । परीक्षितशीलत्वाच न मिथ्या प्यत इति वात्स्यायनः ॥
चिरमिति दीर्घकालम् । आराधितोऽपि कान्तानुवृत्त्या । व्यलीकं ना-
यिकापराधमुपलभ्य । मिथ्यादूषित इति मिथ्यैव दोषं ग्राहितः सदैवेयं व्य-
लीकं कुरुत इति । श्रममतीतमाराधनक्लेशं नापेक्षते । कुत इत्याह – प्रा.
येण हीति बाहुल्येन त्यागिनां तेजस्वितादयस्त्रयो धर्माः संभवन्ति । तत्र
तेजस्वितया व्यलीकं नोपेक्षन्ते । ऋजुतया मिथ्यादोपं ग्राह्यन्ते । अनाह-
तत्वात् श्रमं नापेक्षन्ते । ततः कथमादरः । पूर्वश्रमापेक्षीति । कृतज्ञ
इति कृतज्ञत्वादेव सहसा न विरज्यते व्यलीकमुपलभ्यापि । परीक्षितशी-
लत्वाचेति कृतज्ञतयैव परीक्षणस्वभावत्वान्न मिथ्यैव दोषं ग्राह्यते ।
 
तत्राप्यायतितो विशेषः ॥
 
यत्र प्रभावोऽस्ति यत्रार्थोपगमनहेतुस्तथा मित्रवचनमनर्थप्रतीघातोऽर्थ-
संशयश्च ।
 
तेषां विशेषमाह -
 
मित्रवचनार्थागमयोरर्थागमे विशेषः प्रेसक्ष इत्याचार्याः ॥
मित्रवचनादर्थः प्रत्यक्षः । तस्य दृश्यमानत्वात् । अन्यत्र वचनमेव
केवलम् ।
 
सोऽपि ह्यर्थागमो भविता । मित्रं तु सकृद्वाक्ये प्रतिहते कडुपितं
स्यादिति वात्स्यायनः ॥
 
सोऽप्यर्थागमो भविता भविष्यति । प्रतिहत इत्यननुष्ठिते । कलुपितं
रोषितं स्यात् । ततश्च तत्प्रतिबद्धकार्यहानिरेव स्यात् ।
 
१. 'एक' पुस्तकान्तरे नास्ति. २. 'च'. ३. 'अत्यादृताथ'. ४. 'दूषितः स्यान्'.
५. 'प्रत्यक्षतः'. ६' 'वचनायः प्रत्यक्षः'.
 
का० ४४