This page has not been fully proofread.

३४४
 
कामसूत्रम् ।
 
३३ आदितोऽध्यायः]
 
यत्र चायतिः प्रभावः पुरु (ष) गुणो वा यत्र गम्ये सति प्रीतिर्वा नायिकाया
नायकस्य नायिकायामिति ।
गम्यतो विशेषमाह-~~-
रागित्यागिनोस्त्यागिनि विशेषः प्रयक्ष इसाचार्याः ॥
 
रक्तात्त्यागिनो विशेषः प्रत्यक्षः । तदात्व एव द्रव्यप्राप्तेः ।
शक्यो हि रागिणि त्याग आघातुम् ॥
रागिणि अत्यागिणि रक्ते शक्यस्त्याग आघातुमुपायेन ।
कुत इत्याह-
लुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निर्वन्धाद्रज्यत इति
 
वात्स्यायनः ॥
 
त्यजति द्रव्यं ददाति । निर्बन्धादिति प्रयासेनापि न रज्यते तस्य ते -
जस्वित्वात् । अनुरक्तस्तु त्यजति ।
 
तत्रापि धनवदधनवतोर्धनवति विशेषः । त्यागिप्रयोजनकत्रों:
भयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ॥
 
धनवदघनवतोरिति रागित्यागिनोर्यो धनवान्स विशिष्यते नेतरो निर्धनः ।
प्रयोजनकर्तरीति नायिकायाः कार्यस्य यः कर्ता तस्मिन्नत्यागिनि विशेषः
प्रत्यक्षः । तैदात्व एव कार्यकरणात् । त्यागी तु दास्यतीति न प्रत्यक्षः ।
प्रयोजनकर्ता सकृत्कृत्वा कृतिनमात्मानं मन्यते त्यागी पुनर-
तीतं नापेक्षत इति वात्स्यायनः ॥
 
सकृत्कृत्वेति एकवारं कृतमस्याः कार्य किमपरं करिष्यामीति । अती-
तमिति दत्तमेवास्यै न पुनर्ददामीति नापेक्षते । त्यागशीलत्वात् ।
 
तत्राप्यात्ययिकतो विशेषः । कृतज्ञत्यागिनोस्त्यागिनि विशेषः
भैत्यक्ष इत्याचार्याः ॥
 
आत्ययिकत इति यदा तत्प्रयोजनमवधारितमतिपतति तदा तत एव
 
१. 'कर्तु: '. २. 'तदायत्व', 'तदायत'. ३. 'सकृत्प्रयोजनं कृत्वा.' ४. 'कृतमिति
कृतं'. ५. 'आत्ययिक'. ६. 'प्रत्यक्षतः