This page has not been fully proofread.

५ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
१४३
 
इतिशब्दो विकल्पार्थः । द्वौ त्रीन् चतुरो वा एकस्यापि मूलं गच्छेत् ।
परिग्रहं च चरेत्परिग्रहकल्पं चेति । तावत्सु दिवसेष्वन्यनिरपेक्षानुरञ्जनेन ।
गम्यतश्च विशेषमाह -
 
गम्ययौगपद्ये तु लाभसाम्ये यद्रव्यार्थिनी स्यात्तदायिनि वि-
शेषः प्रत्यक्ष इत्याचार्याः ॥
 
लाभसाम्य इति । यदि बहवो गम्या युगपदुपस्थिता एको हिरण्यमपर-
स्तुल्यमूल्यं लाभतो येन द्रव्यार्थिनी तद्दायिनि गम्ये लामविशेषः प्रत्यक्षः ।
तस्यार्थिनी स्यादित्याचार्याणाम् ।
 
अप्रत्यादेयत्वात्सर्वकार्याणां तन्मूलखार्द्धिरण्यद इति वात्स्यायनः॥
हिरण्यमत्र लोकप्रतीत्या कपर्दकाः (?) । ते चेदत्र गम्येन पुनर्न प्र-
त्यायन्ते वस्त्रादिकं दत्त्वा किंचित्प्रत्यादत्ते । सर्वकार्याणामिति । तद्रव्यं
मण्डनमैन्यच्च कार्ये हिरण्यमूलम् । तेन लभ्यमानत्वात् । तेन तत एव
विशेषः । तस्मात्तत्रैवार्थित्वं कर्तव्यम् ।
 
द्रव्यखरूपमाह -
 
सुवर्णरजतताम्रकांस्यलोहमाण्डोपस्करास्तरणमावरणवासोविशे-
पगन्धद्रव्यकटुकमाण्ड घृततैलधान्यपशुजातीनां पूर्वपूर्वतो विशेषः ।
यत्तत्रसाम्याद्वा द्रव्यसाम्ये मित्रवाक्यादतिपातित्वादायतितो ग-
म्यगुणतः प्रीतितश्च विशेषः ॥
 
सुवर्णरजते घटिते अघटिते वा । ताम्रकांस्यलोहैर्घटितं भाण्डोपस्करम् ।
आस्तरणं तूलिकादि । प्रावरणं कम्बलादि । वासोविशेषः क्षौमादिः । ग-
न्धद्रव्यं चन्दनादि । कटुकं मरिचादि । भाण्डः पटु (?) घटादिः । पूर्व-
पूर्वत इति क्षुद्रपशुजातेर्षान्यं ततस्तैलादिरित्यादिना विशेषः । धान्यपशवो
यत्र अवलब्धा (१) वेश्यानां प्रशस्यन्ते । यत्तत्रसाम्याद्वेति यद्वा एत-
न ते प्रियं ततो विशेषः । द्रव्यसाम्य इति । यच्चादावपि रूपतः प्रमाण-
तुल्यं प्रयच्छतस्तत्र मित्रवचनमनुष्ठेयम् । यत्र वा तदानीमदीयमानमतिपतति
 
१. 'हिरण्यतः'. २. 'अन्यत्र'. ३. 'धान्यगुटपशु ४. 'पत्तन'. ५. 'साम्चेऽपि'.