This page has not been fully proofread.

कामसूत्रम् । ३३ आदितोऽध्यायः ]
 
पूर्वस्या लाभ उक्तः । द्वितीयाया वक्ष्यति । तृतीयाया विनापरिग्रहमनेक-
स्माल्लभमानाया लाभविशेषा उच्यन्ते । तत्रापरिग्रहकारणमाह-
गम्यवाहुल्ये बहु प्रतिदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥
यदा गम्या बहवस्तेभ्यः स्पर्धया बहु लभते । प्रतिदिनं चैकैकममिग-
च्छन्ती तद्दिन एकं प्रतिगृह्णीयात् । स हि बहु प्रतिदिनं च न ददाति ।
तदेवमनियतो लाभः । सततश्च कश्चित्स्वल्पमपि दद्यात् । तद्ब्रहणे चान्ये
तावन्मात्रकमेव दधुरित्यूहेत् ।
 
देश कालं स्थितिमात्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूना-
तिरिक्ततां चावेक्ष्य रजन्यामेर्य स्थापयेत् ॥
 
देशं संपन्नमितरं वा । कालं यत्र काम उद्भूतशक्तिर्वा(?) । स्थितिं
देशप्रवृत्तिं यथा अघरकायं सेवमानस्यैकगुणः पूर्वकायमपि द्विगुणः ।
आत्मनो गुणान्रूपवैदग्ध्यादीन् सतोऽसतो वा । तथा सौभाग्यम् । अ-
न्याभ्य इति मेप्याभ्यः (?) स्थानमानाभ्यामात्मनश्च न्यूनत्वं चाधिक्यं चा-
चेक्ष्य तदनुरूपं रजन्यामर्थे स्थापयेत् ।
 
द्वयमेकां रात्रिनियतासेति इति (2) तत्र यदावस्थापितार्थेन गम्य एक
दूतसंप्रेषणेन भाषयति सिद्धं कार्य नो चेदाह -
 
गम्ये दूतांश्च प्रयोजयेत् । तत्प्रतिबद्धांश्च स्वयं महिणुयात् ॥
तत्प्रतिवद्धान्न तु (गम्यते) । गम्यप्रतिवद्धान्प्रयोजयेदभिप्रायजिज्ञासा-
र्थम् । विदिताभिप्रायांश्च प्रेषयेदात्मीयानित्यर्थः ।
 
दूतसंप्रेषणाद्गम्यसंप्रयोगं रजन्युपालम्भः । तस्मान्नियमितादधिको यो
ऽनुरागाल्लभ्यते स लाभातिशयः । तं चेत्तदैव लभते भद्रकमेव नो चे -
दत्राह-
-
 
द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत् । पॅरिग्रहं
च चरेत् ॥
 
१. 'प्रीतिदिनं'. २ 'अर्धे'. ३. 'शतानि लाभातिशयप्रतिग्रहार्थ'. ४. 'परिग्रहकल्पं,
'परिग्रहकल्प सकलं चाचरेत.