2023-02-19 13:59:39 by ambuda-bot
This page has not been fully proofread.
९ अध्यायः]
६ वैशिकमधिकरणम् ।
३४१
पेक्ष्य तदेव संप्रयोग इति । विभेतीति । यत्र यस्मिन्संस्थाने वर्तमानोऽति-
संसक्तोऽप्यन्यस्य संयोगाद्विमेति संयुक्तोऽयं कदाचिदपकरिष्यतीति ।
व्यलीकानि च नायिकाकृतानपराधान्नेक्षते अवधीरयति सत्यतिसक्तत्वा-
देव । भयादिति परित्यागमयाद्वहु ददाति । असक्तमिति । यो विशीर्णो-
ऽप्यतिरक्तः अतिरक्तत्वाद्वर्तमानं तमसक्तमभिनन्देत । विज्ञा (त) भा-
। -
वत्वात् । यदस्यां न रक्त इति सक्तं परिभवेत् । असक्तावस्थां प्राप्स्यस्य-
चिरेणेति । अन्यदूतानुपाते चेति । अन्यस्य संबन्धिन्यायाते दूतेऽतिवि-
शारदोऽत्यर्थमर्थदो मा भूदनेन संघानमिति । तत्रेति तस्मिन्संधाने ।
पूर्वमसंसृष्टं विशीर्णमुपयायिनम् । नारीति सामान्याभिधानेऽपि प्रकरणा-
द्वेश्यैव द्रष्टव्या । कालेन योजयेत् न तदैव संप्रयोजयेत् । अन्यथा तदात्व
एव वर्तमानेनापि सक्तेन फलवता विश्लेषः स्यात् । विशीर्णोऽप्यतिरक्त-
त्वात्प्रत्याशया कालान्तरमपेक्षत एव । यदाह — 'भवेच्चाच्छिन्नसंधानेति ।
विशीर्णेन सहेत्यर्थः । न च सक्तं परित्यजेत् । तदात्व एव तस्य सफ-
लत्वात् । यस्तु ( यत्र तु) तदात्वेऽन्यस्माल्लाभो महानेव संप्रयोग विना
तत्र कि प्रतिपत्तव्यमित्याह—सक्तं त्विति । वशिनं यथोक्तकारिणम् ।
अन्यत इत्यन्यमुद्दिश्य व्रजेत् । ततश्वेति । तत्र प्रत्रजिता सक्तमेवानुरज-
येत् । कान्तानुवृत्त्या तत्र स्थितत्वात् । नान्यं प्रति संदध्यात् । प्रोक्ता-
नुष्ठाने निरूप्यमाह ——आयतिमिति प्रभावम् लाभमायत्याम् तदात्वे प्रीतिं
पुष्कलां निर्व्याजं तस्यात्मविषये । विचक्षणेति । परीक्षणे विचक्षणा कु-
शला । इति विशीर्णप्रतिसंधानं षट्पञ्चाशं प्रकरणम् ॥
।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानाया विदग्धागनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्याया वैशिके षष्टेऽधिकरणे
विशीर्णप्रतिसधान चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
त्रिविधा वेश्या – एकपरिग्रहा अनेकपरिग्रहा अपरिग्रहा चेति । तत्र
१. 'अपूर्वस्य'.