This page has not been fully proofread.

३४०
 
कामसूत्रम् ।
 
३२ आदितोऽध्यायः ]
 
दुरुपचरः कदर्यश्च भवति । पूर्वसंसृष्टश्च निष्पीडितार्थोऽपि दाता । निष्का-
सितोऽपि सविश्वासः । इति संक्षेपेण संघानम् ।
 
कारणं त्रिविधम्—नायकान्तरस्थं विशीर्णस्थं वर्तमानस्थं चेति । त-
देव दर्शयन्नाह -
 
भवन्ति चात्र श्लोकाः-
अन्यां भेदयितुं गम्यादन्यतो गम्यमेव वा ।
स्थितस्य चोपघातार्थ पुनः संधानमिष्यते ॥
विभेत्यन्यस्य संयोगाव्यलीकानि च नेक्षते ।
अतिसक्तः पुमान्यत्र भयाह्नहु ददाति च ॥
असक्तमभिनन्देत सक्तं परिभवेत्तथा ।
अन्यदूतानुपाते च यः स्यादतिविशारदः ॥
तत्रोपयायिनं पूर्व नारी कालेन योजयेत् ।
भवेच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥ (युग्मम्)
सक्तं तु वशिनं नारी संभाष्याप्यन्यतो व्रजेत् ।
ततथार्थमुपादाय सक्तमेवानुरञ्जयेत् ॥
आयति प्रसमीक्ष्यादौ लामें मीर्ति च पुष्कलाम् ।
सौहृदं भतिसंदध्याद्विशीर्ण स्त्री विचक्षणा ।
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्ण-
प्रतिसंघानं चतुर्थोऽध्यायः ।
 
अन्यामिति । भेदयितुं विशीर्णत्वात् । 'तदानेन विमानिता भार्यया
तमेव तस्यां विक्रमयिष्यामि । अस्य वा मिश्रं महेषिणीं कामयते तदमुना
भेदयिष्यामि' इत्युक्तं वेदितव्यम् । स्थितस्योपघातार्थमित्यनेन तदर्थाभि-
घातं करिष्यतीति । अत उक्तम् – अन्यतो गम्यमेव वेति । अन्यस्याना-
यिकातो विशीर्ण भेदयितुमिति अनेनापि विशेषं विशीर्ण वेत्यनुरक्तं चा-
१. 'च'. २. 'संसर्गात्'. ३. 'अशकमभिनिन्देच शक्त'. ४. 'वाच्छिन्नसंधान.
५. 'संभाव्य'. ६. 'सौहादे'.