This page has not been fully proofread.

४ अध्याय:]
 
६ वैशिकमधिकरणम् ।
 
३३९
 
विवैशायाः पूर्वं निष्कासनं वर्णयेयुः । वर्तमानेन चाकामायाः सं-
सर्गे विद्वेपं च । तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यापयेयुः ।
अभिज्ञानं च तत्कृतोपैकारसंवद्धं स्यादिति विशीर्णमतिसंघानम् ॥
तस्येति विशीर्णस्य । मातुः जील्येनेति मातैवास्या दुःशीला । तया
तथार्थपरतया त्वं निष्कासितः । नायिका त्वय्यनुरचैव । केवलं परदशा
सती । वर्तमानेन गम्येन यः संसर्गः संप्रयोगो नायिकाया अनिच्छन्त्या (स)
औषधपानवत् । विद्वेषः परमार्थतः यत्तस्य दर्शनपथेऽपि न तिष्ठतीति व-
र्णयेयुः । तस्याश्चेति नायिकायाः । सामिज्ञानैरिति सा (अ) मिज्ञानं वक्ष्यति ।
पूर्वानुरागैरिति पूर्व विशीर्णा येऽनुरागा आसंस्त एनं प्रत्यापयेयुर्नायकं
बोधयेयुः । येन तथैव प्रतिपद्यते । तत्कृतोपकारसंबद्धमिति नायकेन यः
कृत उपकारोऽर्थेनानर्थप्रतीकारेण वा तेन युक्तं स्यात् । कृतज्ञतासूचनार्थम् ।
अपूर्वस्यासंभवे विशीर्ण नोपजपतिथ (?) तेन संधानं युक्तमित्याह-
अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान् । स हि विदितशीलो दृष्ट-
रागय खूपचारो भवतीत्याचार्या: । पूर्वसंसृष्टः सर्वतो निप्पीडिता-
र्थत्वान्नात्यर्थमर्थदो दुःखं च पुनर्विश्वासयितुम् । अपूर्वस्तु मुखेना-
नुरज्यत इति वात्स्यायनः । तथापि पुरुषप्रकृतितो विशेषः ॥
 
@kampoph
 
विदितशील इति सहवासेन ज्ञातस्वभावः । दृष्टानुरागश्च पूर्वमासक्त-
त्वात् । स ह्युमयधर्माध्यासितत्वात्कान्तानुवृत्त्या सुखेनोपचर्यत इति । ना-
त्यर्थमर्थद इति । अर्थार्थ संघीयते । स चेन्न यथावत् किं तेन संहितेन ।
दुःखं च पुनर्विश्वासयितुम् । तेस्य सत्यपि विदितशीलत्वे दृष्टानुरागत्वे च
निष्कासनोत्पादितवैकृत्यात् । सुखेनानुरज्यत इति तेन तद्दोषस्यादृष्टत्वात् ।
तया वा अनिष्पीडितार्थत्वादत्यर्थमर्थद इत्यर्थोक्तम् । पूर्वो द्विविधः -त-
नत्य इत ( इहत्य ) श्च । अन्यवेश्यासंसृष्टोऽसंसृष्टश्चेति । संसृष्टोऽपि द्वि-
विषः - निष्कासितोऽनिष्कासितश्च । तेषां संधानोपायो गम्योपावर्तने द्र-
ष्टव्यः । पुरुषप्रकृतित इति पुरुषस्वभावात् । क.स्या (कश्चि) दपूर्वोऽपि
 
-
 
१. 'अवशगाया: '. २. 'उपकरण'. ३. 'दु.खय'. ४. 'तत्रापि'. ५. 'तत्याः'.