2023-02-19 13:58:47 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
२ आदितोऽध्यायः]
बेहवथ कामवशगा: सगणा एव विनष्टाः थूयन्ते ॥
बहवोsनेके कामायत्ता विनष्टा इति संबन्धः । सगणाः । न केवलं
सेवितारः, तत्परिवारा अपीत्यर्थः ।
तथा च दृढीकरणार्थमाख्यानकम् --
यथा दाण्डक्यो नाम भोजः कामाहाह्मणकन्यामभिमन्यमानः
सबन्धुराष्ट्री विननाश ॥
दाण्डक्य इति संज्ञा । भोज इति भोनवंशजः । अभिमन्यमानोऽभि-
गच्छन् । स हि मृगयां गतो भार्गवकन्यामाश्रमपदे दृष्ट्वा जातरागो रथमा-
रोप्य जहार । ततो भार्गवः समित्कुशानादायागत्य तामपश्यन्नभिध्याय
च यथावृत्तं राजानमभिशशाप । ततोऽसौ सबन्धुराष्ट्र: पांसुवर्षेणावष्टव्षो
ननाश । तत्स्थानमद्यापि दण्डकारण्यमिति गीयते ।
देवराजचाइल्यामतिवल कीचको द्रौपदी रावणचे सीतामै
परे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचिन्तकाः ॥
देवराज इन्द्रोऽहल्यामभिमन्यमान इत्येव । स हि गौतमाश्रमे तद्भा-
र्यामहल्यां चकमे । ततः समित्कुशानादायागते गौतमे तद्भार्याहल्या शक्रं
गर्भस्थमकरोत् । तदैवोपनिमन्त्रणेन गौतमः समार्य एवाश्रमान्तरं गतः ।
तैंतस्तेन योगचक्षुषा समुपलव्धेन्द्रागमनेनास्मै समुपनायितमासनत्रयं दृष्ट्वा
चासौ किमेतद्भार्याद्वितीयस्य ममेति जाताशङ्को ध्यानेन यथावृत्तमव-
लोक्य रोषात्सहस्रभगो भवेति शशाप । ततोऽसौ देवराजोऽपि कामाद्वि-
नाशप्रख्यां तादृशीमवस्थामाससाद । यस्याद्यापि केलकोऽहल्यायै जार
इति नास्तमेति । अतिवलो नागसहस्रबलत्वात् । सोऽपि कामाद्रौपदीम-
मिलपन्मीमसेनेन इत इति प्रतीतमेतत् । विनश्यन्तो दृश्यन्त इत्यत्र प्र-
त्यक्षं प्रमाणम् । किं तत्र पूर्ववृत्तोदाहरणेनेति मन्यन्ते ।
१. 'बहवः कामवशगा: सगणा एवाधिनष्टाः' पा०. २. 'कन्यकाम्' पा० ३. 'अ-
भिगम्यमानः : ' पा०. ४. 'च' इति पुस्तकान्तरे नास्ति. ५. 'च' इति पुस्तकान्तरे
नास्ति. ६. 'एते' पा०. ७. 'ततोऽनेन' पा०. ८. 'द्वितीयस्येति' पा०. ९. 'कलङ्कमाहु-
रहल्यायै आर इति नाम'; 'कलङ्कमहल्याये जार इति' पा०.
१२
S
7
$
7
६
: