This page has not been fully proofread.

कामसूत्रम् ।
 
३२ आदितोऽध्यायः ]
 
विशेषार्थितया यत्र गतस्तत्र विशेष सुरतगतमपश्यन् । तस्या अविद
ग्धत्वात् । तत इति तस्याः सकाशात् । अस्मिन्मूलम् - आगन्तुकामो मयि
दृष्टविशेषत्वात् । मां जिज्ञासितुकाम इति । तत्रस्थ एव मयि जिज्ञासां
कर्तुमिच्छुः किमियं मां स्वयमपसूतु (सर्तु) मिच्छति न वेति । सानुरा-
गत्वाद्दास्यति दृष्टविशेषत्वात् । तस्यां वा दोषान्गुणविपर्ययान्दृष्टवान् ।
आगन्तुकाम इति योज्यम् । सत्सु वा गुणेषु मयि भूयिष्ठान्प्रभूततमान्गु-
णानधुना पश्यति । तद्गुणान्स्तोकान्दृष्ट्वा स उभयस्मिन्नपि पक्षे मयि गुण-
दर्शी भूयिष्ठं प्रभूततमं दास्यति ।
असंधेयपक्षमाह -
 
-
 
वालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्वारागो वा ये-
त्किंचनकारी वेत्यवेस संदध्यान्न वा ॥
 
३३६
 
हरिद्वाराग इव रागो यस्य न चिरस्थायी । मयि विरक्तो यत्र गतस्त-
त्रातिविरक्तः सुतरां गन्तुकामः किं दास्यति । यत्किंचनकारी वा सोऽन-
र्थमपि कुर्यात् । इत्येवमवेत्य ज्ञात्वा संदध्यात् प्रथमे पक्षे । न वेति । नैव
संदध्यात् द्वितीयेति (इति द्वितीये) ।
 
इतो निष्कासितापसृतस्ततः स्वयमपसृत उपजपस्तर्कयितव्यः ।
अनुरागादागन्तुकामः स बहु दास्यति । मम गुणैर्भावितो योऽन्य-
स्यां न रमते ॥
 
तर्कयितव्य इत्युपकारापकाराभ्याम् । अनुरागादागन्तुकामः । स-
क्तस्य निष्कासितत्वात् । मम गुणैर्भावितो रञ्जितोऽयम् । योऽन्यस्यां न
रमते । येन ततोऽपि खयमेवापसृतः ।
 
पूर्वमयोगेन वा मया निष्कासितः स मां शीर्लेयित्वा वैरं नि -
र्यातयितुकामो धनमभियोगाद्वा मयास्यापहृतं तेद्विश्वास्य प्रतीप -
मादातुकामो निर्वेष्टकामो वा मां वैर्तमानाद्भेदयित्वा त्यनुकाम
इत्यकल्याणबुद्धिरसंधेयः ॥
 
१. 'यत्किचित्कारी चेत्यवलोक्य'. २. 'दास्यतीति मद्गुणैर्भावितः सोऽन्यस्य'.
3. 'स्वयमेवापसृतः पूर्वमुपायेन वा'. ४. 'छलयित्वा'. ५. 'तन्मा विश्वास्य प्रत्यादातु-
कामः'. ६. 'वर्तमाना'.